SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ [ पार्श्वाभ्युदये ८ चिरविलसनात् दीर्घकालं यावत्सञ्जनितप्रकाशत्वात् । विद्युतः क्षणरुचिकत्वेऽपि दीर्घकालं यावत् पौनःपुन्येनोद्दामहासप्रकटनादिति भावः । खिन्नविद्युत्कलत्रः श्रान्तसौदामनीभार्यः । विद्युत् सौदामन्येव कलत्रं भार्या विद्युत्कलत्रं । खिन्नं श्रान्तं विद्युत्कलत्रं यस्य सः खिन्नविद्युत्कलत्रः । ' कलत्रं भूभुजां दुर्गस्थानेऽपि श्रोणिभार्थयोः ' इति विश्वलोचने । गरीयान् गुरुतरः । प्रकृष्टो गुरुर्वेत्यर्थः । ' गुणाङ्गाद्वेष्ठेयसू' इतीय सि बहुलगुरूरूवृद्धतृप्रदीर्घवृन्दारकाणां बद्दिगर्वर्वर्षित्रप् द्राघवृन्दाः ' इति गुरोर्गरादेशः । त्वं भवान् । इति उक्तप्रकारेण कृत्स्नां निखिलां पुरं नगरीं भ्रान्त्वा परिभ्रम्य । तस्यां नगर्यो निखिलायां परिभ्रमणं विधायेत्यर्थः । सुप्तपारावतायां । सुप्ताः निद्रामुद्रितलोचनाः पारावताः कलरवाः यस्यां सा । तस्यां । पारावतः कलरवे शैले मर्कटतेन्दवे ' इति विश्वलोचने । कस्याश्चित् कुत्रचित् भवनवलभौ । भवनस्य प्रासादस्य वलभिः गृहाच्छादनं भवनवलभिः । तत्र । ' वलभी छादने वक्रदारुणि ' इत्यमरः । ' पटलाघारी वंशपञ्जरो वलभी, वलभ्याश्वडा वा । वल संवरणे' इति क्षीरस्वाम्यमरटीकायाम् । ' आच्छादनं स्याद्वलभिर्गृहाणां ' इति हलायुधः । तां अशेषां रात्रीं तां निखिलां निशीथिनीं नीत्वा यापयित्वा सुखं आनन्द अनुभव अनुभूयाः । अनुभूतिविषयतां प्रापयेत्यर्थः । " १६० You, enjoying fragrance of the incense used at the time of the nocturnal cohabitation, having your beloved, the lightning, fatigued owing to her emitting flashes of light again and again for a long time, possessing a very expansive ( bodily ) form, having roamed for a long time over the city and having spent that whole night on the upper part of some mansion-gallery having pigeons asleep, should enjoy happiness. यद्यप्यस्यां क्षणपरिचयः स्वर्गवासातिशायी तत्राssसक्ति सपदि शिथिलीकृत्य वैरं च योगात् । दृष्टे सूर्ये पुनरपि भवान् वाहयेदध्वशिष्टं मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः ॥ २२ ॥ अन्वयः यद्यपि अस्यां क्षणपरिचयः स्वर्गवासातिशायी [ तथापि ] तत्र आसक्ति योगात् वैरं च शिथिलीकृत्य पुनरपि सूर्ये दृष्टे भवान् अध्वशिष्टं वाहयेत् । सुहृदां अभ्युपेतार्थकृत्याः न खलु मन्दायन्ते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy