SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः] वेगवद्वर्षस्य धाराः सवाः आसारधाराः । 'आसारस्तु प्रसरणे धारावृष्टौ सुहृबले' इति 'धारा पङ्क्तौ द्रवद्रव्यस्रवेऽश्वगतिपञ्चके ।...। ... धाराभ्यासे नुतावपि' इति च विश्वलोचने । सम्भूताः निष्पादिताः आसारधाराः वेगवद्वर्षजनितस्रवाः येन सः । तोयोत्सर्गस्तनितमुखरः । तोयोत्सर्गः जलवृष्टिः । स्तनितं गर्जितं । गर्जनध्वनिरित्यर्थः । तोयोत्सर्गश्च स्तनितं च तोयोत्सर्गस्तनिते । ताभ्यां मुखरः वाचालः तोयोत्सर्गस्तनितमुखरः । स्तनितशब्दस्याल्पाच्त्वात्पूर्वनिपाते प्राप्तेऽपि परनिपातः पूर्वनिपातशास्त्रानित्यत्वनिबन्धन इत्यवसेयं । यद्वा, तोयात्सर्गे जलवृष्टिकाले यत् स्तनितं गर्जनाध्वनिः तेन मुखरः इति वा विग्रहः । च । चोऽत्र समुच्चये। 'चः पादपूरणे पक्षान्तरे चाऽपि समुच्चये । अन्वाचये समाहारेऽप्यन्योन्यार्थेऽवधारणे' इति विश्वलोचने । मा भूः मा भव । ताः स्त्रियः । विक्लवाः भीरवः । तासां भीरुत्वादित्यर्थः । अत्र वाविभक्तिर्हतो 'हेतो सर्वाः प्रायः' इति वचनात् । यद्वा हेतुगर्भमेतद्विशेषणम् । 'विक्लवते कातरीभवति विक्लवः' इति क्षीरस्वामी स्वोपज्ञायाममरकोशटीकायाम् । If at all you are ardently desirous of giving forth thunders for the sake of ridiculing, roar very slowly as charmingly as the jingling of anklets and as the internal inarticulate murmuring uttered at co-habitation. Do not pour showers of heavy rain and do not be noisy with thunder at the time of down-pour of water; for thoy are timid. भ्रान्त्वा कृत्स्ना पुरभिति चिरं रात्रिसम्भोगधूपै लब्धामोदः सुखमनुभव त्वं गरीयानशेषाम् । तां कस्याश्चिद्भवनवलभी सुप्तपारावतायां। नीत्वा राजी चिरविलसनात् खिन्नविद्युत्कलत्रः ॥२१॥ अन्वय :- रात्रिसम्भोगधूपैः लब्धामोदः चिरविलसनात् खिन्नविद्युत्कलत्रः गरीयान् त्वं इति कृत्स्ना पुरं भ्रान्त्वा सुप्तपारावतायां कस्याञ्चित् भवनवलभौ तां अशेषां रात्री नीत्वा सुखं अनुभव। भ्रान्त्येत्यादि । रात्रिसम्भोगधूपैः निशीथे क्रियमाणे सम्भोगे स्त्रीसमागमे उपयुक्तैधूपैः । रात्रौ निशीथे क्रियमाणः सम्भोगः स्त्रीसङ्गः रात्रिसम्भोगः। 'रते भोगे च सम्भोगः सम्भोगो जिनशासने ' इति विश्वलोचने । तत्रोपयुक्ताः धूपाश्चन्दनागुर्वादिसुगन्धिद्रव्यचूर्णानि । तैः । लब्धामोदः सम्प्राप्तसौगन्ध्यः । लब्धः सम्प्राप्तः आमोदः परिमलः येन सः । 'सुगन्धिमुदि वाऽऽमोदः' इति विश्वलोचने । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy