________________
१५८
[पार्धाभ्युदयः
विग्रहः। तवा । सौदामन्या विद्युता । सुदाम्ना अद्रिणा मेघेन वैकदिक् सौदामनी। “सुदामा त्वम्बुदे गिरौ' इति विश्वलोचनः । ' एकदिक्' इति भान्तादेकदिगर्थे समानदिगर्थे यथाविहितं त्यः । अणित्यर्थः । 'अनः' इति सुदामनिति शब्दस्यान्नन्तत्वादाणि परेऽपि टिखाभावः । उर्वी भूमिं दर्शय प्रकाशय । प्रकाशितां कुर्वित्यर्थः । अन्धतमसे स्थपुटितभूभागदर्शनासम्भवात्पातशङ्काकुलत्वात्तायां मार्ग दर्शयेत्यर्थः ।
Do not, therefore, be very noisy, while giving forth thunders and . contract immediately ( your ) expanse. The act of impeding is looked upon favourably by the wicked and not by the noble-minded. Oh benevolent one ! you should help those distressed ones. By means of flashes of lightning shining like a gold streak on a touch-stone point out the earth to those.
क्रीडाहेतोर्यदि च भवतो गर्जनेनोत्सुकत्वं
मन्दं मन्दं स्तनय वनितानूपुरारावहृद्यम् । तासामन्तर्मणितसुभगं सम्भूतासारधारः
तोयोत्सर्गस्तनितमुखरो मा च भूर्विक्लवास्ताः॥२०॥ अन्वयः-- यदि च क्रीडाहेतोः भवतः गर्जनेन उत्सुकत्वं वनितानूपुरारावहृद्यं तासां अन्तर्मणितसुभगं मन्दं मन्दं स्तनय; सम्भृतासारधारः तोयोत्सर्गस्तनितमुखरः च मा भूः, ताः विक्लवाः ।
क्रीडेत्यादि । यदि च पक्षान्तरे। 'पक्षान्तरे चेद्यदि च' इत्यमरः। क्रीडाहेतोः क्रीडार्थम् । क्रीडायाः परीहासस्य हेतोः कारणात् क्रीडाहेतोः। 'द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च' इत्यमरः। गर्जितध्वनिजीनतभीतियोषित्कृतकोलाहलदिदृश्येत्यभिप्रायः । भवतः तव । गर्जनेन गर्जिध्वनिना । उत्सुकत्वं उत्कण्ठितत्वं । गर्जिध्वनिजनने तदर्थे वौत्सुकत्वमित्यर्थः । वनितानूपुरारावहृद्यं । वनितानां योषितां नूपुराः मञ्जीराः वनिता नपुराः । नारीमञ्जीराः । तेषामारावा श्वनयः । शिञ्जितानीत्यर्थः। ते इव हृद्यं मनोहरं यथा स्यात्तथा । हृदयस्य प्रियं बन्धनं वा हृद्यम् । 'जन्यवश्यधर्म्यधेनुष्यामूल्यहृद्यगार्हपत्याः' इति यान्तो निपातः यत्ये च परतः 'हृदयस्य हृलेखाण्यलासे' इति हृदयस्य हृद् । तासां योषितां । अन्तर्मणितसुभगं। निधुवनक्रियायामुच्चारितोऽनक्षरो ध्वनिविशेषो अन्तर्मणितं । तद्वदिव सुभगं मनोहरं यथा स्यात्तथा। मन्दं मन्दं शनै शनैः । स्तनय गर्जितध्वनि कुरु । सम्भृतासारधारः। आसारस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org