SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः ] when you, who would have blockaded the heavenly path, would be giving out roaring thunders and when the royal roads would have the light obstructed by the masses of very pitch darkness at night? तस्मानोच्चैयनिषु च भवाऽऽडम्बरं संहराशु प्रत्यूहानां करणमसतामादृतं नोन्नतानां । कर्तव्या ते सुजन विधुरे प्रत्युतोपक्रियाऽऽसां सौदामन्या कनकंनिकषस्निग्धया दर्शयोर्वीम् ॥ १९ ॥ अन्वयः- तस्मात् ध्वनिषु उच्चैः न भव आडम्बरं च आशु सहर । प्रत्यूहानां करणं असतां आतं, न उन्नतानां । प्रत्युत (हे) सुजन आसां विधुरे उपक्रिया ते. कर्तव्या । कनकनिकषस्निग्धया सौदमन्या उर्वी दर्शय । तस्मादित्यादि । तस्मात् । यतः सङ्केतगोष्ठी निशीथे गन्तुमसमर्थाः भविप्यन्ति ततः । ध्वनिषु ध्वन्युच्चारणविषये उच्चैः महान् न भव मा भव । मन्दमन्दध्वनिर्भवेत्यर्थः । नीचर्भवेति पाठस्तु समीचीनः । आडम्बरं च प्रपञ्च च । ध्वनिमहत्त्वमित्यर्थः । ' आडम्बरं करीन्द्राणां गर्जिते तूर्यनिस्वने । समारम्भे प्रपञ्चे च रचनायां च दृश्यते' इति विश्वलोचने । आशु शीघ्रं संहर दूरीकुरु । प्रत्यूहानां विघ्नानां । 'विघ्नो• न्तरायः प्रत्यूहः' इत्यमरः। करणं विधानं असतां दुर्जनानां आहतं प्रियं । 'आहत सादरेऽपि स्यात्पूजितेऽप्यभिधेयवत्' इति विश्वलोचने । न उन्नतानां न सजनानां । भवतीति शेषः । प्रत्युत पक्षान्तरे हे सुजन भो साधो । हे भद्रपुरुषेत्यर्थः । आसां वनितानां विधुरे विषदि प्रविश्लेषे वा । 'विधुरं तु प्रविश्लेषे प्रत्यवायेऽपि तन्मतम् ' इति विश्चलोचने । उपक्रिया उपकृतिः ते तव । त्वयेत्यर्थः । ' व्यस्य वा कर्तरि' इति ता । कर्तव्या विधातव्या । कनकनिकषस्निग्धया। निकष्यतेऽत्रेति निकषः । 'गोचरसञ्चरवहनजव्यज सङ्क्रमापणखेलभगकपनिकषनिगमाः' इत्याधारे धान्तो निपातः। कनकस्य निकषो निकषोपल: कनकनिकषः। निकषस्य कषपट्टिकेत्यर्थः । निकषितकनकरेखायाः कषपट्टिकास्थिीतकत्वानिकषेत्याभिख्या न दोषावहा । तेन निकषस्य कषोल्लिखितसुवर्णरेखाया अत्र ग्रहणम् । स इव स्निग्धया तेजस्विन्या वा। स्निग्धयेतिपदस्य तेजस्व्यर्थग्रहणे, 'सामान्यनोपमान' इति सः। स्निग्धं तेजः अस्या अस्तीति स्निग्धा । 'ओsभ्रादिभ्यः ' इत्यत्यः । यद्वा तस्य स्निधं तेज इव स्निग्धं यस्याः सा । 'ईबुपमानपूर्वस्य युखं गतार्थत्वात् ' इति वा सः । यद्वा तस्येव स्निग्धा मनोहारिणीति वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy