SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ [ पार्श्वाभ्युदये Afterwards, having perceived thus the beauty of the temples situated in the Mahakala forest, and again having perforned the evening rites here ( i. e. in this temple ), move about in that city seeing amorous sports of the women going slowly to the residence of their lovers for the sake of having nocturnal sexual enjoyment. १५६ गर्जत्युच्चैर्भवति पिहितव्योममार्गे रमण्यो गाढोत्कण्ठा मदनविवशाः पुंसु सङ्केतगोष्ठीम् । एकाकिन्यः कथमिव रतौ गन्तुमीशा निशीथे रुद्धालोके नरपतिपथे सूचि भेद्यैस्त मोभिः ॥ १८ ॥ - अन्वयः - - पिहितव्योममार्गे भवति उच्चैः गर्जति निशीथे नरपतिपथे सूचिभेद्यैः तमोभिः रुद्वालोके पुंसु गाढोत्कण्ठाः मदनविवशाः रमण्यः रतौ सङ्केतगोष्ठी एकाकिन्यः गन्तुं कथमिव ईशाः ? गर्जतीत्यादि पिहितव्योममार्गे प्रच्छादिताकाशाध्वनि । पिहितः प्रच्छादितः व्योममार्गः आकाशपथः येन सः । तस्मिन् । ' धाञ्नद्योः ' इति धाञि परतोऽपेरादेः खम् । 'वष्टि भागुरिरलोपमवाप्योरुपसर्गयोः ' इति वाऽल्लोपः । भवति त्वयि उच्चैः महान्तं ध्वनिमुच्चार्य गर्जति गर्जिध्वनिं कुर्वति । सतीति शेषः । 'यद्भावाद्भावगतिः' इती | निशीथे रात्रौ । 'निशीथस्तु निशामात्रार्धरात्रयोः ' इति विश्वलोचने । नरपति• पथे राजमार्गे । नरपतेः राज्ञः पन्थाः नरपतिपथः । ' ऋक्पूरप्पथोत्' इति सान्तोऽत्यः । सूचिभेद्यैः अतिनिबिडैः । तमोभिः तिमिरैः । रुद्वालोके प्रतिबद्धप्रकाशे । " आलोको दर्शनेऽपि स्यादुद्योते बन्दिभाषणे ' इति विश्वलोचने । पुंसु पुरुषविषये । गाढोत्कण्ठाः सञ्जाततीत्रौत्सुक्याः । ' तीत्रैकान्तनितान्तानि गाढवाढदृढानि च ' इति ' उत्कण्ठात्कालिके समे ' इति चामरः । ' तत्प्राप्तीच्छां ससङ्कल्पामुत्कण्ठां कवयो 'विदुः ' इत्यप्याहुः | मदनविवशाः कामवासनाधीनमनस्काराः रमण्याः स्त्रियः रतौ निधुवनक्रीडाहेतोः । ' हेतौ सर्वाः प्रायः इति तावीप् । संकेतगोष्ठीं सङ्केतनिकेतनं । समयस्थानमित्यर्थः । एकाकिन्यः असहायाः । ' एकादश्विासहाये इत्यसहायार्थेऽत्राकिन् । ङी च । गन्तुं प्राप्तुं कथमिव केन प्रकारेण ईशाः समर्थाः । ता एकाकिन्यः समर्थ न भविष्यन्तीत्यर्थः । " How could the women, cherishing strong desire for males, highly inflamed by passion, be able to go alone to the places of appointment, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy