________________
द्वितीयः सर्गः ]
१४९
-"
तम् । विद्युदुद्भासिदण्डं । उद्भासते इति उद्भासी । विद्युता उद्भासी दण्डः शरीरं यस्य सः । तम् । — दण्डश्चण्डाशोः पारिपार्श्विके । दण्डः सैन्यव्यूहभेदे मानभेदे दमे यमे। मन्थानेऽश्वे ऽभिमाने च कोणदण्डप्रकाण्डयोः । विग्रहे च ग्रहे यज्ञे लगुडेऽस्ति मतोऽस्त्रियाम् ॥ इति विश्वलोचने । त्वां व्योम्नि आकाशे विरचितं निर्मितं लीलावितानं विलासदृष्यं इव द्रक्ष्यन्ति प्रेक्षिष्यन्ते ।
Those courtezans, there, on obtaining from you the first drops of rain water, pleasing to the marks ( wounds ) made by the nails ( at the time of sexual enjoyment), would look at you, sitting on the upper part of the roof of the temple dedicated to Jina, possessing body enlightened by the ( red ) lustre of evening, possessing ( or having ) body enlightened by lightning, as a beautiful canopy spread in the sky.
भूयश्च त्वत्स्तनितचकिताः किंस्विदित्यात्तशङ्काः किञ्चित्तिर्यग्वलितवदनास्तत्र पण्याङ्गनास्ताः । बद्धोत्कम्पस्तनतटलुठल्लोलहारा : सलीलान
आमोक्ष्यन्ति त्वयि मधुकर श्रेणीदीर्घान्कटाक्षान् ॥ १२ ॥
अन्वय :- भूयश्च तत्र त्वत्स्तनितचकिताः, ' किंस्वित्' इति आत्तराङ्काः, किञ्चित्तिर्यग्वलितवदनाः, बद्धोत्कम्पस्तनतटलुठल्लोलहाराः ताः पण्याङ्गनाः त्वयि सलीलान् मधुकरश्रेणिदीर्घान् कटाक्षान् आमोक्ष्यन्ति
भूयश्चेत्यादि । मूयश्च पुनश्च तत्र कलकल जिनालये त्वत्स्तनितचकिताः युष्मद्गर्जितेन भीत्याक्रान्तस्वान्ताः किंस्विदिति किमिदमिति आत्तशङ्काः गृहीतसन्देहाः । सन्देहदोलायितमनस्काः । इत्यर्थः । किञ्चित्तिर्यग्वलितवदनाः ईषद्वक्रीभूतमुखाः । किञ्चिदीषत्तीर्यग्वलितानि वक्रीभावं गतानि वदनानि मुखानि यासां ताः । बद्धोत्कम्पस्तनतटलुठल्लोलहाराः भीतिरचितवेपथुस्तनप्रदेशलुठच्चलमालाः । बद्धः भीत्या विरचितः उत्कम्पः वेपथुः ययोस्तौ बद्धोत्कम्पौ । तौ च तौ स्तनतटौ च । तयोर्लुठन्त उपावर्तमानाः लोलाश्चञ्चलाश्च हाराः मालाः यासां ताः । ताः जिनालये नृत्तं कुर्वाणाः पण्याङ्गनाः पण्यस्त्रियः । वेश्या इत्यर्थः । त्वयि भवति सलीलान् लीलया श्रिया सहितान् मधुकरश्रेणिदीर्घान् भ्रमरराजिवि दीर्घान् । मधुकराणां भ्रमराणां श्रेणी राजिरिव दीर्घाः आयताः । तान् । कटाक्षान् दृष्टिक्षेपान् 'अपाङ्गो नेत्रयोरन्ते कटाक्षोपाङ्गदर्शने ' इत्यमरः | आमोक्ष्यन्ति आवर्जिष्यन्ति । क्षेप्स्यन्तीत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org