________________
[ पार्श्वाभ्युदये
Moreover, the courtezans, there, frightened by your thunders, cherishing doubt as ' what is this? ', having their faces turned aslant a little, having dangling necklaces rolling on their tremulous breasts, would cast on you their beautiful side-glances which would be as much long as the rows of bees.
१५०
इत्थं भक्तिप्रकटनपटुस्तत्र चातोद्यगोष्टीं कृत्वा मन्द्रस्तनितमुरवध्वानमाविर्वितन्वन् । वन्दारूणां शृणु सुनिभृतः स्तोत्रपाठ मुनीनां पश्चादुच्चैर्भुजतरुवनं मण्डलेनाऽभि लीनः ॥ १३ ॥
अन्वयः - पश्चात् च तत्र इत्थं भक्तिप्रकटनपटुः आतोद्यगोष्ठीं कृत्वा मन्द्रस्तनितमुरवध्वानं आविर्वितन्वन् उच्चैर्भुजतरुवनं अभि मण्डलेन लीनः : वन्दारूणां मुनीनां स्तोत्रपाठ सुनिभृतः ( सन् ) शृणु ।
इत्थमित्यादि । पश्चात् अनन्तरं च तत्र कलकलाजिनालये इत्थं उक्तप्रकारेण भक्तिप्रकटनपटुः जिनगुणानुरागप्रकाशननदीष्णातः । भक्तेर्जिनगुणानुरागस्य प्रकटने प्रकटीकरणे । प्रकाशन इत्यर्थः । पटुः नदीष्णातः । कुशल इत्यर्थः । आतोद्यगोष्ठीं ततावनद्धघन सुषिरभेदातोद्यविषयं सम्भाषणं । ' ततं चैवाऽवनद्धं च घनं सुषिरमेव च । चतुर्विधं तु विज्ञेयमातोद्यं लक्षणान्वितम् ' इति भरतमुनिविरचिते नाट्यशास्त्रे । तच्च वादित्रापरनामकम् । ' ततं वीणादिकं वाद्यं आनद्धं मुरजादिकं । वंशादिकं तु सुषिरं कांस्यतालादिकं धनं । चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम् ।' इत्यमरः । आतोद्यस्य वाद्यस्य गोष्ठी संलापः । ताम् । ' गोष्ठी सभायां संलापे' इति विश्वलोचने । आतोद्यविषयकं संलापमित्यर्थः । कृत्वा विधाय । मन्द्रस्तनितमुरवध्वानं गम्भीरगर्जितमुरजध्वनिं । मन्द्रं गम्भीरं च तत् स्तनितं मेघनिर्घोषश्च मन्द्रस्तनितं । मुरवस्य मुरजस्य ध्वानः ध्वनिः । मन्द्रस्तनितमेव मुरवध्वानः मन्द्रस्तनितमुरजध्वानः । तं । 'कलो मन्द्रस्तु गम्भीरे' इति ' स्तनितं गर्जितं मेघनिर्घोषे रसितादि च' इति चामरः । अविवितन्वन् आविष्कुर्वन् । प्रकटीकुर्वन्नित्यर्थः । ' प्रकाशे प्रादुराविः स्यात्' इत्यमरः उच्चैर्भुजतरुवनं उन्नतशाखायुक्त वृक्षकान्तारम् । उच्चैर्महान्तश्च ते भुजाः शाखाः येषां ते उच्चैर्भुजाः । ते च ते तरवश्च । तेषां वनं कान्तारम् । भुजशब्दोऽत्र शाखावाची अभि । अभिरत्र विभक्त्यर्थः । तेनोन्नतशा खायुक्तवृक्षवनोपरितनभागे इत्यर्थः । मण्डलेन मण्डलाकारेण । मण्डलाकारं भ्रमित्वेत्यर्थः । लीनः स्थितः । वन्दारुणां वन्दन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org