SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ १४८ [ पार्श्वभ्युदये नप् । तेन आखाचता रूषिता व्याप्ता वा वलयश्चामरदण्डाः येषां ते । तैः । 'वलिश्चामरदण्डेऽपि करपूजोपहारयोः' इति विश्वलोचने । 'वलिश्चामरदण्डे चर्मणि' इति विश्वः । चामरैः प्रकीर्णकः । बालव्यजनैरित्यर्थः । क्लान्तहस्ताः । क्लान्ताः सञातदुःखाः श्रान्ताः वा हस्ताः पाणयः यासां ताः । दैशिकनृत्यसूचनमेतत् 'दुकूलदण्डिकामालाखङ्गचामरगोलकैः । हस्तसञ्चारिभिः कुर्युत्तं तद्देशिकं स्मृतम् ।' इत्युक्तेः। देशान्तरे धृतप्रकीर्णका एव पण्याङ्गनाः नृत्तं कुर्वन्ति । ताः जिनालये नृत्तं कुर्वाणाः पण्याङ्गनाः पश्य विलोकय । There ( in that temple ), you should see those courtezans wearing jingling anklets made up (or studed with) of jewels ( lit. sun-crystals), singing loudly in keeping with the graceful movements of their feet, possessing graceful movements of their eye-brows turned upwards, looking upwards, sprinkle over twice or thrice with drops of fresh sprays of water ( discharged by you ), possessing nimbleness (or extraordinary beauty ), having their hands fatigued on account of ( waving ) the Camaras possessing handles covered over with the lustre of jewels. त्वां तत्राऽर्हद्भवनवलभेरू भागे निषण्णं सन्ध्यारागच्छरितवपुषं विधुदुद्भासिदण्डम् । द्रक्ष्यन्ते ता विरचितमिव व्योम्नि लीलावितानं वेश्यास्त्वत्तो नखपदसुखान् प्राप्य वर्षाप्रबिन्दून् ॥ ११ ॥ अन्वय :- तत्र ताः वेश्याः त्वत्तः नवपदसुखान् वर्षाग्रबिदून प्राप्य अर्हद्भवनवलभेः ऊर्वभागे निषण्णं सन्ध्यारागच्छुरितवपुष विद्युदुद्भासिदण्डं त्वां व्याम्नि विरचित लिलावितानं इव द्रक्ष्यन्ति । स्वामित्यादि । तत्र कलकलजिनालये ताः जिनालथे नृत्तं कुर्वाणाः वेश्याः। रूपाजीवाः त्वत्तः त्वत्सकाशात् नखपदसुखान् सुरतसमये जनितानां नखत्रणाङ्कानां सुखकरान् । नखपदानि नखजनितव्रणचिह्नानि । तेषां सुखं शर्म येभ्यस्ते । तान् । व्यधिकरणो बसः । वर्षाप्रबिन्दुन्। वर्षायाः वृष्टेः ये अग्रबिन्दवः प्रथमबिन्दवः तान् । प्राप्य समधिगम्य । अर्हद्भवनवलभेः अर्हन्मन्दिरच्छादनस्य । अर्हतो जिनस्य भवनं मन्दिरं अर्हद्भवनम् । तस्य वलभिश्छादनं । तस्याः। 'गोपानसी तु वलभी छादने वऋदारुणि' इत्यमरः । ऊवभागे उपरिभागे। निषण्णं उपविष्टम् । सन्ध्यारागच्छरितवपुष । सन्ध्याया रागः रक्तिमा सन्ध्यारागः । तेन च्छुरितमिश्रितं वपुः यस्य सः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy