________________
द्वितीयः सर्गः ]
१४७ पश्योत्पश्या नवजलकणद्वित्रसिक्ता विलोला
रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः ॥ १० ॥ अन्वयः -- तत्र अहर्मणिमयरणनपुराः सुललितपदन्यासं प्रोद्गायन्तीः, उद्धविलासाः, उत्पश्याः, नवंजलकणिकाद्वित्रसिक्ताः, विलोलाः, रत्नच्छायाखचितवलिभिः चामरैः क्लान्तहस्ताः ताः पण्ययोषाः पश्य ।
ता इत्यादि । तत्र महाकालवनान्तर्भागस्थकलकलजिनालये अहर्मणिमयरणन्नूपुराः सूर्यकान्तमणिघटितवणन्मञ्जीराः । अहर्मणिः सूर्यः इवाहमणिः 'देवपादिभ्यः ' इतीवार्थस्य कस्योस् । अहर्मणेविकारा अहमणिमयाः । ' मयडाऽभक्ष्याच्छादने ' इति विकारे मयट् । सूर्यकान्तमणिनिर्मिता इत्यर्थः। रणन्तः कणन्तः । शब्दायमाना इत्यर्थः । रणन्तश्च ते नूपुराश्च रणन्नपुराः । नूपुराः मञ्जीराः। 'मञ्जीरों नूपुरोऽस्त्रियाम् ' इत्यमरः। अहमणिमयाः रणन्नूपुराः यासां ताः । सुललितपदन्यासं। सुतरां ललिता मनोहरः सुललितः । पदानां चरणानां न्यासः प्रक्षेपः पदन्यासः । सुललितः पदन्यासः यस्मिन् कर्मणि तत् । यद्वा सुललितानां ललितानां लालित्यगुणोपेतानां पदानां सुम्मिङन्तरूपाणां न्यासः प्रयोग यस्मिन् कर्मणि तत् । शोभनपादविक्षेपपूर्वकं विपुललालित्यगुणोपेतसुम्मिङन्तपदानि प्रयुज्य वा प्रोद्गायन्तीः प्रकर्षेणोच्चैः स्वरेण गानं कुर्वाणाः । उद्धविलासाः। भ्रुवोर्विलासः भ्रूविलासः । उद्गतः प्रकर्ष प्राप्तो भ्रूविलासों यासां ताः । उत्पश्याः । उदूर्व पश्यन्तीति उत्पश्याः । ' पाराधमाधेड्दृशः शः ' इति गौ वाचि दृशेः शः । 'पाघ्राध्मास्थाम्नादाण्दृश्यर्तिशदसदां पिबजिध्रधमतिष्ठमनयच्छपश्यछंशीयसीदाः' इति पश्यादेशः । नवजलकणिकाद्वित्रसिक्ताः । नवं मेघवृष्टं भुवमप्राप्तत्वान्नव्यं च तज्जलं सलिलं च नवजलं । द्वित्राणि सिक्तानि सेचनानि द्वित्रसिक्तानि । द्वे वा त्रीणि वा द्वित्राणि । 'स्यिः सुज्वार्थ' इति विकल्पे स्थिसज्ञावाचि बसः । अत्र क्रियाप्रवृत्तिदर्शनाद्विकल्पार्थो ग्राह्यः, न संशयार्थः तत्र क्रियाप्रवृत्त्यसम्भवात्संशयस्यानिर्णयरूपप्रतिभासत्वात् । द्वे वा त्रीणि वा द्वित्राणीत्यत्र डः । डित्त्वादचोन्त्यादिलक्षणायाष्टेः खम् । नवजलकणिकाभिः द्वित्राणि सिक्तानि सेचनानि यासा ताः नवजलकणिकाद्विनसिक्ताः । सिक्तं सेचन । नब्भाव क्तोऽभ्वादिभ्यः' इति भावे क्तः नप् च । विलोलाः चञ्चलाः अतिशयेन शोभमाना वा। विशिष्टा लोला श्रीः यासां ताः विलोलाः । 'लोला जिह्वांश्रियोः' इति विश्वलोचने। रत्नच्छायाखचितवलिभिः रत्नानां छाया रत्नच्छायं । ' छाया बहूनां' इति रत्नानां बाहुल्याच्छायान्तस्यास्य पस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org