________________
१४६
[ पार्धाभ्युदये
सायाह्न इत्यादि । तत्र महाकालवने सायाह्ने सन्ध्यासमये। सायं च तत् अहश्च सायाह्नः । विशेषणसविधिः । 'एभ्योऽहोऽह्नः' इति झिसज्ञकसायंशब्दात्परस्याहशब्दस्याह्नादेशः। अस्य चाह्लादेशस्य कृतमकारखसायशब्दपूर्वस्याऽपि डौ परेऽपि 'स्थिविसायावाऽह्नस्याहन् डौ' इत्यहन्नादेशस्य वैकल्पिकत्वादह्लादेशस्य स्थानेऽहन्न विहितः। तत् कलकलजिनालयाख्यं धाम मन्दिरं । 'धाम रश्मौ गृहे देहे प्रभावस्थानजन्मसु' इति विश्वलोचने। उपगतवान गतः चेत् यदि तर्हि तत्कालपूजासङ्गीतान्ते सान्थ्यपूजासङ्गीतावसाने । स चासौ कालश्च तत्कालः । सायाह्नः इत्यर्थः । सायाह्ने क्रियमाणा. या पूजा तस्याः सङ्गीतस्यान्तऽवसाने तत्कालपूजासङ्गीतान्ते श्रमजलकणैः श्रमजनितस्वेदजलबिन्दुभिः आचितागी। आचितानि व्याप्तानि अङ्गानि गात्राणि यासां ताः। इब्बहुवचनम् । सुकण्ठीः । शोभनाः कण्ठाः यासां ताः । स्फोङ्गकण्ठयोर्डीविधानं कथमिति चेत् 'नासिकोदरौष्ठजकुदन्तकर्णशृङ्गाङ्गगात्रकण्ठात् ' इति सूत्रेण तद्विधानात् । मन्दं शनैः यान्तीः गच्छन्तीः। यान्तीति यान्त्यः । ताः। शतृत्यः । स्त्रियां 'थुगिदृन्नञ्चोः' इति डी। पादन्यासक्वणितरसनाः । पादन्यासैः चरणनिक्षेपैः क्वाणताः कृतध्वनयः रसनाः काञ्चीदामानि यासां ताः । कणतेर्धित्वात् 'धिगत्यर्थाच्च' इति कर्तरि क्तः । चरणविन्यासजनितध्वनिमेखला इत्यर्थः । 'स्त्रीकट्या मेखला काञ्ची सप्तकी रसना तथा' इत्यमरः । चतुरगणिकाः पव्यः वेश्याः। 'दक्षे तु चतुरपेशलपटवः सूत्थान उष्णश्च' इति 'वारस्त्री गणिका वेश्या' इति चाऽमरः । लीलाबधूतैः। लीलायै क्रीडायै अवधूतैः व्याधूतैः । प्रक्षिप्तैरित्यर्थः । 'लीला हावान्तरे स्त्रीणां केलौ खेलाविलासयोः' इति विश्वलोचने । क्रीडाथै प्रक्षिप्तैरिति भावः । 'साधनं कृता बहुलं' इत्यत्र बहुलग्रहणात्सम्प्रदान कारकमपि कृता समस्तं भवति । शीकरैः पृषद्भिः । जलबिन्दुभिरित्यर्थः । त्वं सन्नयेः संयोगं कुरु ।
If you would reach that temple there (i. c. in that forest ) in the evening, you should kring the drops of water, discharged sportively, in contact with the clever courtezans, wearing girdles jingling on account of the movements of their feet, going slowly, having beautiful necks, having their bodies covered over with drops of perspiration given off through exertion at the end of songs sung in chorus at the worsbip performed at that time ( i. e. in the evening ). __ तास्तत्राहर्मणिभयरणनूपूराः पण्ययोषाः
प्रोद्गायन्तीः सुललितपदन्यासमुद्भविलासाः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org