SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः ] १४५ . तत्रेत्यादि । तत्र महाकालवने अन्तर्वणं वनमध्यभागे। वनस्यान्तः अन्तर्वणं । 'पारेमध्येऽन्तस्तया वा' इति हसः । 'प्राग्रेऽन्तर्निःशरेक्षुप्लक्षपीयूक्षाकायाम्रखदिरात्' इति वननकारस्य णः। अपभियां वीतभीतीनां । अपगता विनष्टा भीयं येषां तेऽपभियः । तेषां । प्रादिवसः। ' भीतिर्भाः साध्वसं भयं' इत्यमरः । सन्मुनीनां आगमानुसारिचा. रित्रत्वात् सतां मुनीनां आसितं आसनं । निवासस्थानमित्यर्थः । अत्रेमे आसते स्मेत्यासितं। 'आधारे चाद्यर्थाच्च' इत्याधारे क्तः । 'क्तस्याधारसतोः' इत्याधारार्थकक्तत्यान्तासितशब्दप्रयोगनिबन्धना ता सन्मुनीनामिति पदस्य । स्तुतिकलकलात् मुनीश्वर. सङ्गीतस्तुतिजनितकलकलध्वनेः । 'स्तवः स्तोत्रं स्तुतिर्नुतिः' इति 'कोलाहलः कलकलः' इति चामरः । आत्ततन्नामरूढि गृहीतकलकलजिनालयाभिधानप्रसिद्धि। आत्ता गृहीता तस्य कलकलस्य नाम्नोऽभिधानस्य रूढिः प्रसिद्धिन तत् । जैनं जिनस्वामिकं , जिनस्येदं जैनम् । ' तस्येदं ' इत्यण । वेश्म मन्दिरं । ' गृहं देवोदवसितं वेश्म सद्म निकेतनम् ' इत्यमरः । अस्ति विद्यते। तं भगवन्तं जिन । उच्चराद्भः निनदद्भिः। स्तनितपटहैः गर्जिध्वनिरूपैः पटहैः । 'पटहस्तु समारम्भे न स्त्री पटहमानके' इति विश्वलोचने । ' स्तनितं गर्जितं मेघनि?षे रसितादि च ' इत्यमरः ! सेवित्वा आराध्य गर्जितांना निर्घोषाणां अविकलं सम्पूर्ण उच्चैः उत्कृष्ट फलं लाभं 'फलं तु सस्ये हेतूत्थे फलके व्युष्टिलाभयोः । जातीफलेऽपि कङ्कोले मार्गणाग्रेऽपि न द्वयोः' इति विश्वलोचने । त्वं भवान् लप्स्यसे प्राप्स्यते । लभेः कर्तरि लट् । In the interior part of that forest, there is a temple dedicated to Jina, known by that name (i. e. Kalakala Jinalaya ) traditionally owing to the confused noise of prayers, the seat (or abode ) of good sages. Worshipping Him with drums in the form of thunders sounded, you would obtain remuneration in full of your loud rumbling thunders, सायाह्ने चेत्तदुपगतवान् धाम तत्कालपूजा सङ्गीतान्ते श्रमजलकणराचिताङ्गीः सुकण्ठी। मन्दं यान्तीश्चतुरगणिकाः शीकरैः सत्रयेस्त्वं पादन्यासकणितरसनास्तत्र लीलावधूतैः ॥९॥ अन्वयः -- तत्र सायाह्ने तत् धाम उपगतवान् चेत् तत्कालपूजासङ्गीतान्ते श्रम- जलकणैः आचिताङ्गीः सुकण्ठीः मन्दं यान्तीः पादन्यासक्वणितरसनाः चतुरगणिकाः लीलावधूतैः शीकरैः त्वं सन्नयः । पार्थाभ्युदये...१० . . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy