SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ १४४ [पार्श्वभ्युदये 'मधुरो रसवत्स्वादुप्रियेषु त्रिषु वाच्यवत् ' इति विश्वलोचने । विरिषैः ध्वनिभिः । 'क्षुब्धस्वान्तध्वान्तलमम्लिष्टघुष्टविरिब्धफाण्टबाढपरिवृढं मन्थमनस्तमःसत्ताविस्पष्टाविशब्दस्वरानायासभृशप्रभौ' इति क्तान्तस्य विरिन्धशब्दस्य ध्वन्यर्थस्य निपातः । विपूर्वस्य रे डोऽनिट्त्वमित्वं च । विशब्दैरिति पाठे तु स्वाभिप्रायनिवेदनैः शब्दरित्यर्थो ग्राह्यः। तदा च तस्य मन्त्रैरिति पदेनान्वयः कार्यः । प्रोक्तश्च विशब्दपदार्थः ‘शब्देनाभिप्रायनिवेदनं विशब्दनं' इति महावृत्तिकारोक्तिप्रामाण्यात्सङ्ग्रहीतः। विशब्दैरिति मुद्रितपाठमपहायाऽ स्माभिर्योगिराजविरचितटीकायां शब्दसिषाधयिषयोद्धतं सूत्रमवलोक्य विशब्दपदस्य क्तान्तत्वाभावं विज्ञाय प्रयुक्तः पाठः क्तान्त इति योगिराजोक्तिं मनसि विधाय विरिब्धपदस्य क्तान्तत्वं विलोक्य 'क्षुब्ध' इत्यादिसूत्रस्य विशब्दपदसिद्धिनिबन्धनत्वमनवलोक्य, तत्र सूत्रे ध्वन्यर्थकक्तान्तविरिब्धशब्दं निपातितं दृष्टा विरिब्धैरिति पाठः स्वीकृतः, तत्पदाभावे तत्सूत्रोद्धृतेर्वैफल्यप्रसङ्गात् । सन्ध्याबलिपटहतां सान्ध्यपूजावसरे पटहस्यार्थक्रियां कुर्वन् सम्पादयन् । पटहशब्दस्य रूढिशब्दत्वात् 'भावे त्वतल' इति तल्त्यविधाने जात्यभिधानमेव प्रयोजकम् । गर्जिध्वनिना पटहकार्य कुर्वन्नित्यर्थः । श्लाघनीयां प्रशंसाहाँ पूजा सम्मानं आप्तासि लब्धासि । लुटो मध्यमपुरुषेकवचनम् । 'बलिश्चामरदण्डेऽऽपि करपूजोपहारयोः' इति विश्वलोचने । There, you, acting as a drum beaten at the time of worship pergormed (by magicians ) in the evening by means of your flawless pleasing sounds of thunder ) towards the assemblage of magicians, wearing washed clothes, armed with spears, moving on the cremation qround (i e. necropolis ) uttering incantations consisting in and $, rigidly observing the rites prescribed for the sake of attaining magical skill, would attain praiseworthy honours. तत्राऽस्त्यन्तर्वणमपभियामासितं सन्मुनीनां जैनं वेश्म स्तुतिकलकलादात्ततन्नामरूढि । तं सेवित्वा स्तनितपटहैरुचरद्भिस्त्वमुच्चै रामन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम् ॥ ८॥ अन्वयः-- तत्र अन्तर्वणं अपभियां सन्मुनीनां आसितं, स्तुतिकलकलात् आत्ततन्नामरूढि जैनं वेश्म अस्ति । तं उच्चरद्भिः स्तनितपटहै: सेवित्वा गर्जितानां अविकलं उच्चैः फलं त्वं लप्स्यसे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy