SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः ] १४३ रब्धसाराविणो परिणतैः प्रवृद्धैः महत्त्व प्राप्तैः शिवाभिः क्रोष्ट्रीभिः आरब्धैः कृतैः सांराविणैः प्रसरणक्रियया दिगन्तव्यापिभिः ध्वनिभिः उग्रे भयानके । 'रौद्रं तूमममी त्रिषु' इत्यमरः । 'शिवा झाटामलापथ्याक्रोष्ट्रासक्तुफलासु च' इति विश्वलोचने । 'मिन् व्याप्तौ' इति सम्पूर्वाद्रौतेर्जिन नब्भावे व्याप्तौ । क्रियागुणाभ्यां कास्न्येन व्याप्ता. वित्यर्थः । 'आजिनोऽण्' इति स्वार्थि कोऽण् । 'हृत्यवादेः' इति जिति हृत्यस्य परत्वादादेरच ऐप् । उपान्ते समीपभूमौ स्थातव्यं । त्वयेति शेषः । You, therefore, should, until the sun passess beyond the range of your eyes, make a halt in the immediate proximity, abounding in noises terrorising the owls with their hootings impeded inside the interior of the extensive hollows of hundreds of old trees, extremely formidable owing to the intumescence of the dead bodies, terrible owing to the full grown and pervading howlings of female jackals. विद्यासिद्धिं प्रति नियमिनो धौतवस्त्रस्य मन्त्रै हफुङ्कारैः पितृवनमभि भ्राम्यतः स्वैर्विरिब्धैः। पूजामाप्तास्यनघमधुरैः साधकौघस्य तस्मिन् कुर्वन् सन्ध्याबलिपटहतां शूलिनः श्लाघनीयाम् ॥ ७॥ अन्वयः- तस्मिन् विद्यासिद्धि प्रति नियमिनः, धौतवस्त्रस्य, ह्रफुङ्कारैः मन्त्रैः पितृवनं अभि भ्राम्यतः, शूलिनः साधकौघस्य स्वैः अनघमधुरैः विरिब्धैः सन्ध्याबलिपटहतां कुर्वन् श्लाघनीयां पूजां आप्तासि । विवेत्यादि । तस्मिन् महाकालवने विद्यासिद्धिं प्रति मन्त्रविद्यानिष्पत्तिमुद्दिश्य । मन्त्रविद्यासिद्ध्यर्थमित्यर्थः । नियमिनः तिनः । नियमो व्रतमस्याऽस्तीति नियमी । तस्य नियमिनः । 'अत इनिठनौ' इतीन् । धौतवस्त्रस्य प्रक्षालितवसनस्य । धौतानि प्रक्षालितानि वस्त्राणि वसनानि यस्य सः । तस्य । हूंफुङ्कारैः हंफुकारबीजाक्षरस्वरूपैः मन्त्रैः देवादिसिद्धिनिबन्धनवाक्यविशेषैः । पितृवनं अमि स्मशाने । 'स्मशानं स्यापितृवनं' इत्यमरः । भ्राम्यतः भ्रमणं कुर्वतः शूलिनः शूलवतः । शूलमस्याऽस्तीति शूली । तस्य । 'अत इनिठनौ' इतीन् । 'शूलं मृत्यौ ध्वजे ना तु योगे न स्त्री रुगस्त्रयोः' इति विश्वलोचने । साधकौघस्य मन्त्राराधकनिकायस्य । ओघः पाथः प्रवाहे च समूहे च पुमानयम्' इति विश्वलोचने । स्वैः स्वकीयैः अनघमधुरैः अनवद्यप्रियः । अनघानि निरवद्यानि च तानि मधुराणि प्रियाणि च अनघमधुराणि । तैः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy