________________
१४०
[ पार्श्वाभ्युदये
account of the pollens of blue-lotuses, possessing lofty waves, moving very violently on account of their being disturbed by the wind.
सत्यन्यस्मिन् सुरभिशिशिरस्वच्छतोयहृदादौ नानास्वा पयसि पविते पीतिनस्त्वद्विनोदः । व्याधूतैस्तैः कथमिव भवेद्वारिभिर्गन्धवत्याः तो क्रीडानिरत युवतिस्नानतिक्तैर्मरुद्भिः ॥ ४ ॥
अन्वयः • अन्यस्मिन् सुरभिशिशिरस्वच्छतोयहृदादौ नानास्वाद पविते सति पयसेि पीतिनः त्वत् मरुद्भिः व्याधूतैः तोयक्रीडानिरतयुव तिस्नानतिक्तैः तैः गन्धवत्याः वारिभिः विनोदः कथमिव भवेत् ? ।
,
सतीत्यादि । अन्यस्मिन् गन्धवत्यभिख्यायाः सरितो भिन्ने सुरभिशिशिरस्वच्छतो यह दादौ सुगन्धिशीतल निर्मलसलिलपस्वलतड [गादौ । सुरभि सुगन्धि च तत् शिशिरं शीतलं च सुरभिशिशिरं । सुरभिशिशिरं च तत् स्वच्छं निर्मलं सुरभिशिशिरस्वच्छं । सुरभिशिशिरस्वच्छ तोयं येषां ते । सुरभिशिशिरस्वच्छतोयश्चासो हदश्व सुरभि - शिशिरस्वच्छतोयहृदः । सः आदिः यस्य सः । तस्मिन् । खञ्जकुब्जादिवत्सः । नानास्वादौ नितरां स्वादुनि । आ अत्यर्थे स्वादु रुचिरं आस्वादु । न आस्वादु अनास्वादु । ‘नञोऽन् ' इत्यन् । ' अचि' इति सनकारस्यानः श्रवणम् । न अनास्वादु नानास्वादु ।' पुनर्न से नञः प्रकृतिभावः' इति महावृत्तिकार भगवदभयनन्दिवचनादनास्वादुशब्दस्याजादित्वेऽपि ' अचि' इति सनकारस्यानः श्रवणं न सम्भवति । यद्वा ना स्वादु नास्वादु । ना नास्वादु नानास्वादु । स्वाद्वेवेत्यर्थः । पविते पूते सति समीचीने पयसि जले पीतिनः पानं कुर्वतः । स्वादिष्ट पूतं समीचीनं च जलं पिबत इत्यर्थः। ‘ इष्टादेः' इतीन् । ' क्तेन्कर्मणि' इति कर्मणि ईप् । त्वत् तव । ' त्वमौ त्यद्यौ चैके ' इति युष्मदस्ताया एकवचनान्तं रूपं । मरुद्भिः समीरणैः व्याधूतैः प्रकम्पितैः। जनितप्रकम्पैरित्यर्थः । तोयक्रीडानिरतयुवतिस्नानतिक्कैः जलक्रीडासक्तयुवतिप्रयुक्तस्नानीयद्रव्यजनितसौरभैः । तोयक्रीडायां जलक्रीडायां निरतानां व्यापृतानां युवतीनां तरुणीनां स्नानेन स्नानीयेन चन्दनादिद्रव्येण तिक्तैः सुगन्धिभिः । ' स्नानीयेऽभिषवे स्नानं ' इति यादवः । तिक्तो रससुगन्धयोः इति विश्वलोचने । तैः प्रसिद्धैः गन्धवत्याः गन्धवतीनामनद्याः वारिभिः जलैः विनोदः सुखं सन्तोषो वा कथमिव केन प्रकारेण भवेत् जायेत ? न कथमपि जायेतेति भावः । गन्धवतीजलपिपासुना त्वया तत्र स्थित्वा विलम्बो न कर्तव्य इत्यभिप्रायवतेदमुक्तं शम्बरासुरेण ।
Jain Education International
For Private & Personal Use Only
"
www.jainelibrary.org