SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः ] १४१ How, possibly, would you, when you would have drunk very sweet and pure water in other lakes etc. possessing fragrant, cool and pure water, be gratified by those waters of the Gandhavatl which are pungent (or fragrant ) owing to the unguents, perfumed powders etc. of the young ladies engaged in water-sports? द्रष्टुं वाञ्छा यदि च भवति प्रेतगोष्ठीं विचित्रां तिष्ठातिष्ठन्न परिनिपतद्धबद्धान्धकारे । दोषामन्येऽप्यहनि नितरां प्रेतगोष्ठीति रात्रे - रप्यन्यस्मिञ्जलधर ! महाकालमासाद्य काले ॥ ५ ॥ अन्वयः (हे ) जलधर ! यदि च विचित्रां प्रेतगोष्ठीं द्रष्टुं वाञ्छा भवति उपरिनिपतद्गृधबद्धान्धकारे दोषामन्ये अहनि अपि नितरां प्रेतगोष्ठी इति रात्रेः अन्यस्मिन् अपि काले महाकालं आसाद्य अतिष्ठन् तिष्ठ । G " द्रष्टुमित्यादि । हे जलधर वारिवाह ! यदि च विचित्रां आश्चर्यावह्नां । अत्यद्भतामित्यर्थः ' चित्रं तु कर्बुराद्भुतयोस्त्रिषु ' इति विश्वलोचने । प्रेतगोष्टीं पिशाचसभम् । प्रेतो भूतान्तरे मृते ' इति ' गोष्ठी सभायां संलापे ' इति च विश्वलोचने । पिशाचसम्भाषणमिति वाऽर्थः । द्रष्टुं अवलोकयितुं वाञ्छा अभिलाषः भवति अस्ति तर्हि उपरि निपतद्गृधबद्धान्धकोर महाकालवनोपरितनव्योमप्रदेशे उड्डयमानैः गृधैः प्रेतपलाशनपक्षिविशेषैः विरचितान्धतमसे । उपरि महाकालाख्यकाननोपरितना काशप्रदेशे निपतन्तः उड्डयमानाः ये गृध्राः तैः बद्धः विरचितः अन्धकारः तमः यस्मिन् । तस्मिन् । दोषामन्ये रात्रिसंकाशे । दोषां रात्रिमात्मानं मन्यते इति दोषामन्यं । तस्मिन् । ' खश् स्वस्य ' इति खश् | शित्त्वाच्छ्यः । खितः परत्वात् 'मुमचः ' इति मुमागमप्राप्तेः दोषाशब्दस्य झित्वात् प्रत्याख्यानं ' खित्यझेः कृति-' इति तस्य झित्वादेव प्रत्वप्रतिषेधश्च । अहनि दिने अपि नितरां अतिशयेन प्रेतगोष्ठी पिशाचसंलापः । अस्तीति शेषः । इति तस्मात् कारणात् । ' इति हेतौ प्रकारे च प्रकाशाद्यनुकर्षयोः इति विश्वलोचने । रात्रेः दोषायाः अन्यस्मिन् अपि काले दिनेऽपि महाकालं तदभिधानं वनं आसाद्य प्राप्य अतिष्ठन् कालयापनामविधाय तिष्ठ आस्स्व । दिवाऽप्यन्धतमसावगुण्ठितत्वाद्वनस्य महाकालेत्यभिख्या । अन्धतमसावगुण्ठितत्वात्पिशाचसभस्य दिवाऽपि सम्भवाद्रात्रिसमयपर्यन्तं विलम्ब्यलमिति शम्बरासुराभि , प्रायः । ― Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy