SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः] १३९ तं सेवेथाः कृतपरिगतिाकिरन्पुष्पवर्ष स्तोत्रीकुर्वन् स्तनितमभितो दुन्दुभिस्वानमन्द्रम् । वातोदधूतैरनिभृततरैरुत्तरङ्गैः पयोभि धूतोद्यानं कुवलयरजोगन्धिभिर्गन्धवत्याः ॥ ३ ॥ अन्वय :-( त्वं ) कृतपरिगतिः, पुष्पवर्षे व्याकिरन्, दुन्दुभिस्वानमन्द्रं स्तनितं स्तोत्रीकुर्वन् , गन्धवत्याः वातोद्धतैः अनिभृततः उत्तरङ्गैः कुवलयरजोगन्धिभिः पयोभिः तं धूतोद्यान सेवेथाः। तमित्यादि । त्वं कृतपरिगतिः कृतप्रदक्षिणः । परितः अभितः गतिः गमनं परिगतिः । कृता विहिता परिगतिः प्रदक्षिणं गमनं येन सः । पुष्पवर्ष पुष्पमिव पुष्पं । पुष्पाणां वर्षः पुष्पवर्षः । तं । व्याकिरन विकिरन् । यद्वा धृतोद्यानं पुष्पवर्षे व्याकिरन् । उद्यानं विधूय पुष्पवृष्टिं विकिरन्नित्यर्थः । दुन्दुभिस्वानमन्द्रं भेरीध्वनिवद्गम्भीरं । दुन्दुभेभैर्याः स्वानो ध्वनिः दुन्दुभिस्वानः । तद्वन्मन्द्रं गम्भीरं दुन्दुभिस्वानमन्द्रम् । 'दुन्दुभिदैत्यभर्योः स्त्री वशबिन्दुत्रिके द्वयें।' इति विश्वलोचने । 'स्वाननिर्घोषनिर्हादनादनिस्वाननिस्वनाः' इति 'मन्द्रस्तु गम्भीरे' इति चाऽमरः । स्तनित गर्जितं स्तोत्रीकुर्वन् स्तोत्रता प्रापयन् । प्रागस्तोत्रमिदानी स्तोत्रं करोतीति स्तोत्रीकुर्वन् । 'कृभ्वस्तिव्योंगेऽभूततद्भावे सम्पद्यकर्तरि चिः' इति चिः । स्वर्जिध्वनिना भगवतः स्तवनं कुर्वन्नित्यर्थः । गन्धवत्याः गन्धवत्यभिधायाः नद्याः वातोद्धृतैः समीरणसमीरितैः । वातेन वायुनोद्धतैरूज़ प्रापितैः । अनिभृततरैः चञ्चलतरैः । निभृतोऽचपलः । अनिभृतचपलः । अनिभृततराः चञ्चलतराः। तैः। उत्तरङ्गैः उत्थितकल्लोलैः । उस्थिताः तरङ्गाः कल्लोला येषु तैः। कुवलयरजोगन्धिाभिः कुवलयानां कमलानां रजांसि परागाः कुवलयरजांसि । कुवलयरजसामिव गन्धोऽस्य कुवलयरजोगन्धि । तैः । 'वोपमानात्' इति गन्धस्थः । पयोभिः सलिलैः । तं अर्हन्तं । धूतोद्यानं धूतमुद्यानं यथा स्यात्तथा । उद्यानं विधूयेत्यर्थः । उद्यानविधूननेनात्तगन्धो भूत्वेत्यभिप्रायः । सेवेथाः भजेथाः । यद्वा धूतोद्यानं कृतपरिगतिः । प्रदक्षिणावसरे तन्मन्दिरपरिसरस्थोद्यानं प्राग्विधूय प्रदक्षिणां कुर्वित्यर्थः ।। You, moving round in a way causing the garden to shake, scattering showers of water like those of flowers, turning the thundering sound rumbling like that of a kettle-drum into a hymn of praise, should worship Him with the waters of the Gandhavati, fragrant on Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy