SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ १३८ . [ पार्धाभ्युदये द्वेदोदयासम्भवाद्विजितमदनत्वमस्य भगवतोऽहतोऽवसेयम् । चण्डेश्वरस्य उग्रतपसां प्राग्रहरस्य क्रोधादिद्रव्यभावकर्महन्तुर्ग। चण्डानां क्रोधादिकषायाणामीष्ट इति चण्डेश्वरः । यद्वा चण्डानामुग्रतपसामीश्वरश्चण्डेश्वरः । चण्डमुग्रतपोऽस्याऽस्तीति चण्डः । 'ओऽभ्रादिभ्यः ' इत्यः । चण्डानामीश्वरः श्रेष्ठश्चण्डेश्वरः । यद्वा चण्ड शीघ्रगामिन्मेधेत्यर्थः । अत्र चेश्वरपदेन भगवदर्थो ग्राह्यः। चण्डीश्वरस्येति पाठे तु चण्डमुग्रतपोऽ. स्याऽस्तीति चण्डी । अनेकाच्वाददन्तत्वाच्च ब्रीह्यादिवदिन्त्यः । चण्डिनामुग्रतपसां मुनीनामीश्वरोऽग्रणीश्चण्डीश्वरः । तस्य । यद्वा क्रोधादिद्रव्यभावकर्महननाच्चण्डीश्वरो रुद्रः इव चण्डीश्वरः । 'देवपादिभ्यः' इतीवार्थस्य कस्योस् । त्रिभुवनगुरोः भुवनत्रयवर्तिजीवानामुपदेशदानेन साक्षात् परम्परया च संसारनिबन्धनाज्ञानगन्धकारनाशकत्वाद्गुरुरूपस्य भगवतः । 'गुशब्दस्त्वन्धकारः स्याद्रुशब्दस्तन्निवारकः ' इत्युक्तेर्गुरोरज्ञानान्धकारनिवारकत्वमवसेयम् । त्रयाणां भुवनानां समाहारस्त्रिभुवनम् । यद्वा त्रैलोक्याधिपतेः । अर्हतः भगवतो जिनेन्द्रस्य । अर्हतीत्यर्हन् । अनन्तज्ञानदर्शनवीर्यादिचतुष्टयमधिगन्तुमर्हतीत्यर्हन भगवाजिनेन्द्रः । शतृत्यः । तस्यार्हतः । धवलितनभोभागं धवलीकृतव्योमप्रदेशं । धवलितं धवलीकृतम् । 'मृदो ध्वर्थे गिज़ बहुलं' इति णिचि क्तः । नभसो भागो नभोभागः । धवलितो नभोभागो येन तद् धवलितनभोभागं । अभ्रंलिहायं अभ्रङ्कपशिखरायम् । अभ्रमाकाशप्रदेशं लेढीत्यभ्रंलिहं । 'वहाभ्रे लिहः' इति खश् । अभ्रंलिहं अग्रमन्तो यस्य तत् । 'अग्रं त्रिषु प्रधान स्यादग्रं मूर्धाधिकादिषु। पुरस्तात्पलमाने च बातेऽप्यालम्बनान्तयोः ॥' इति विश्वलोचने । 'पुरोऽधिकमुपर्यग्राणि' इत्यमरः । कैलासादिश्रियं अष्टापदाचलशोभाम् । के जले लसनमस्य कैलासः । स एवाऽद्रिः कैलासाद्रिः । तस्य श्रीः। ताम् । हसदिव उपहासं कुर्वाणमिव । इवशब्दोऽत्रोत्प्रेक्षायाम् । धाम मन्दिरं । 'धाम रश्मौ गृहे देहे प्रभावस्थानजन्मसु' इति विश्वलोचने । यायाः गच्छेः ।। First of all, (you ), desirous of coming into possession of religions merit, should have recourse to the temple ( visit the temple ), laughing as it were at the beauty of the Kailasa mountain, touching with its uppermost part the sky, whitening a region of the sky, of the Arhat, the master of all the three worlds, the conqueror of passions (or the lord of sages practising austere penance ), bringing sexual passion into subjection, ( and ) destroying infatuation which is one of the enemies in the form of ( eightfold ) Karmans. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy