________________
द्वितीयः सर्गः ]
१३७
You, having takon rest just for a moment, possessing body having resplendent and darkish complexion, looked at with respect by the crowds of citizens owing to ( your ) possessing the lustre like that of the neck of the lord of cobras ( hooded-snakes), should roam about with a desire to enjoy the beauty of it (i. e. Vishala ) putting the city of Indra to shame by its glory.
पूर्व तावद्धवलितनभोभागमभ्रंलिहाग्रं
कैलासाद्रिश्रियमिव हसन्मोहशत्रोनिहन्तुः । कारीणां विजितमदनस्याऽर्हतः सञ्चिचीपुः
पुण्यं यायात्रिभुवनगुरोर्धाम चण्डेश्वरस्य ॥ २ ॥ अन्वयः- पुण्यं सञ्चिचीषुः ( त्वं) पूर्व तावत् कर्मारीणां मोहशत्रोः निहन्तुः विजितमदनस्य चण्डेश्वरस्य त्रिभुवनगुरोः अर्हतः धवलितनभोभागं अभ्रंलिहायं कैलासाद्रिश्रियं हसत् इव धाम यावाः ।
पूर्वमित्यादि । पुण्यं सुखजनकं शुभं कर्म । 'पुण्यं तु सुकृते धर्मे त्रिषु मध्यमनोज्ञयोः' इति विश्वलोचने । यस्मिन् कृते सति भविष्यति सुखमुपजायते तत् कर्म पुण्यमित्यभिधीयते । सश्चिचीषुः सञ्चेतुमिच्छुः । पुण्यकर्मसञ्चयार्थे जाताभिलाष इत्यर्थः । 'सञ्चिचीर्घः' इति पाठस्य प्रामादिकत्वात्तं परिहृत्य ' सञ्चिचीषुः । इति पाठोऽत्रास्माभिरुररीकृतः सन्त्यात्पूर्वस्याऽचो दीत्वदर्शनाद्धोः 'हन्यचां सनि' इत्यजन्तत्वाद्धलन्तस्य दीत्वासम्भवाच्चरतेश्व हलन्तत्वात् । 'तुमीच्छायां धोर्वोप्' इति सनि तुम उपि च 'सन्भिक्षाशंसादुः' इत्युः । त्वं पूर्व प्रथमं । आदावित्यर्थः । तावत् । अत्र तावच्छब्दोऽवधारणार्थः । तेनादावेवेत्यर्थः। 'यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे' इत्यमरः । कर्मारीणां कर्मशत्रूणां । कर्माणि ज्ञानावरणादीन्येवारयः शत्रवः कर्मारयः । तेषां । तेषामन्यतमस्वेत्यर्थः। 'यतश्च निर्धारणं' इति षष्ठी। मोहशत्रोः मोहनीयाख्यस्य शुद्धात्मस्वभावपिधायकस्यात एव परिपन्थिनः कर्मणः । मोह एव शत्रुः मोहशत्रुः । तस्य । अत्र मोहशब्द उपलक्षणार्थः। तेन घातिचतुष्कस्यात्र ग्रहणं कर्तव्यम् । ततश्च परिपन्थिभूतघातिचतुष्कस्येत्यर्थः । घातिचतुष्कप्रतिघातमन्तरेणाहत्पदप्राप्त्यसम्भवादन चाऽहत्पदप्रयोगदर्शनान्मोहशब्दस्योपलक्षणार्थत्वं सङ्ग्रहीतमन्यथा छद्मस्थवीतरागग्रहणापत्तेः । निहन्तुः घातकस्य । विजितमदनस्य पराजितकामस्य । घातिसङ्घातान्यतमदर्शनचारित्रमोहप्रकारमोहनीयस्य निमूलकाषं कषितत्वा
Jain Education International
For Private & Personal Use Only
: - www.jainelibrary.org