________________
अथ द्वितीयः सर्गः । विश्रम्याऽथ क्षणमिव भवान् पर्यटेत्सन्दिदृक्षुः
। शोभां तस्याः शतमखपुरी हेपयन्त्याः स्वभूत्या । स्निग्धश्यामं वपुरुपवहन्नागराणां फणाभृ--
द्भर्तुः कण्ठच्छविरिति गणैः सादरं वीक्ष्यमाणः ।। १ ।। - अन्वयः-अथ क्षणमिव विश्रम्य स्निग्धश्यामं वपुः उपवहन् , फणाभृद्भर्तुः कच्छविः इति नागराणां गणः सादरं वीक्ष्यमाणः, स्वभूत्या शतमखपुरी हेपयन्त्याः तस्याः शोभा सन्दिदृक्षुः भवान् पर्यटेत् । ।
.. विश्रम्येत्यादि । अथ अनन्तरं उजयिनीनगरीप्राप्त्यनन्तरमित्यर्थः । 'अथाऽथो च शुभे प्रश्ने साकल्यारम्भसंशये । अनन्तरेऽप्यन्यथात्वपरार्थवितथार्थयोः।' इति विश्वलोचने । क्षणमिव अल्पकालमात्रमेव । ' इवेन सह नित्यसमासो विभक्त्यलोपश्च' इतीवेन सह नित्यसमासः । विश्रम्य श्रमापहारं विधाय । श्रमपरिहारार्थ तत्र क्षणप्रमाणकालं यावदेव त्वया तत्र स्थातव्यं, नाऽधिककालं, विलम्बसम्भवादित्यभिप्रायप्रधानोक्तिरियं कमठचरशम्बरासुरस्य । स्निग्धश्यामं सतेजस्कं श्यामवर्ण च । स्निग्धं च तत् श्यामं च स्निग्धश्यामं । 'वर्णों वर्णैः' इति सः । वपुः शरीरं । उपवहन धरन् । फणाभृद्भर्तुः । फणाः स्फटाः विभ्रतीति फणाभृतः । नागा इत्यर्थः । तेषां भर्ताऽधिपतिः तस्य । कण्ठच्छविः । कण्ठस्य कन्धरायाः छविः इव च्छविः कान्तिः यस्य सः । इति अस्माद्धेतोः। नागराणां नगरवासिजनानां । गणैः समूहै । 'गणः समूहे प्रमथे सङ्ख्यासैन्यप्रभेदयोः' इति विश्वलोचने । सादरं आदरेण सहितं यथा स्यात् तथा। वीक्ष्यमाणः अवलोक्यमानः । स्वभूत्या स्वकीयेनैश्वर्येण । 'भूतिर्मातङ्गशङ्गारे भस्मसम्पत्तिजन्मसु' इति विश्वलोचने । शतमखपुरी इन्द्रनगरीममरावत्यभिधानां । शतमखस्य शतमन्योरिन्द्रस्य पुरी राजधानीभूतां नगरी। उपयल्याः लज्जालुत्वं प्रापयन्त्याः । स्वसम्पत्प्रदर्शनजनितेन्द्रपुरीलज्जायाः विशालानगर्या इत्यर्थः । तस्याः विशालाभिधानावाः नगर्याः । शोभा सौन्दर्य । सन्दिदृक्षुः सञ्जाततद्दर्शनामिलापः । सन्द्रष्टुमिच्छुः सन्दिदृक्षुः । 'तुमीच्छायां धोर्वोप्' इति सन् 'सन्भिक्षाशंसादुः' इत्युश्च । भवान् त्वं । पर्यटेत् । नगरं परितोऽटाट्यां विधेहि । यदि ते तन्नगरीदिदृक्षाऽस्ति, एकस्थानस्थितिको मा भूः, तस्मान्तनगरवैमवदर्शनासम्भवादिति भावः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org