SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः ] १३३ भङ्गान् रचनाविशेषान् । भङ्गः भक्तिः रचनाविशेषोऽस्त्येषामिति भङ्गाः । तान् । 'ओऽभ्रादिभ्यः' इत्यत्यः । च समुच्चये दृष्ट्वा अवलोक्य सलिलनिधयः पाथोधयः । समुद्रा इत्यर्थः । तोयमात्रावशेषाः । तोयमेव तोयमात्रं । ' मात्रट् ' इति मानेऽवधारणार्थे मात्रट् । 'मात्रं कात्स्न्येऽवधारणे ' इति विश्वलोचनेऽमरकोशे च । तोयमात्रं तोयमेव नान्यत्किञ्चिद्रत्नादिकमवशेषो येषां ते तोयमात्रावशेषाः । संलक्ष्यन्ते तां नगरीमव लोकमानैर्जनैरनुमीयते । तन्नगरीपण्यवीथिकारचितानि रत्नादीन्यवलोक्य रत्नानि समुद्रान्प्रमुष्य तत्र नगर्यो स्थापितानीति सागराः मुषितरत्नादित्वात्तोयमात्रावशेषाः जाता इत्यवलोकमानस्तां नगरीं जनैः कल्प्यते इति भावः Moreover, on seeing in which the best jewels, worthy of being turned into various ornaments, imitating the beautiful Indra's bow, brought into being by the streaks of sunlight, and the structures of corals arranged in the shops on the bazaar roads (or in the markets for sale), the oceans are looked upon as having only water remaining behind ( in them ). विश्रम्योच्चैर्वलभिषु पुरीं प्राप्य तामुत्तमार्द्ध स्वर्गावास प्रणयमुररीकृत्य सौधैस्तथाऽस्याः । जालोद्गीर्णैरुपचितवपुः केशसंस्कारधूपै बन्धुप्रीत्या भवनाशिखिभिर्दत्तनृत्तोपहारः ॥ ११७ ॥ स्वःसौधेषु प्रणयमचिरात्संहरिष्यस्यवश्यं मन्द्रातोद्यध्वनिषु सततारब्धसङ्गीतकेषु । हवस्याः कुसुमसुरभिष्वष्वखिन्नान्तरात्मा नीत्वा खेदं ललितवनितापादरागाङ्कितेषु ॥ ११८ ॥ इत्य मोघवर्षपरमेश्वरपरमगुरुश्री जिनसेनाचार्यविरचितमेघदूतवेष्टिते भगवत्वस्यवर्णनं ( ? ) नाम प्रथमः सर्गः । अन्वय :-- तां उत्तमार्द्धं पुरीं प्राप्य, वलभिषु उच्चैः विश्रम्य तथा अस्याः सौधैः स्वर्गवासप्रणयं उररीकृत्य, जालोद्गीर्णैः केशसंस्कारधूपैः उपचितवपुः, भवनाशखिभिः बन्धुप्रीत्या दत्तनृत्तोपहारः मन्द्रातोद्यध्वनिषु सततारब्धसङ्गीतकेषु, कुसुमसुर - भिषु, ललितवनितापादरागाङ्कितेषु अस्याः हर्म्येषु, अध्वखिन्नान्तरात्मा ( त्वं ) खेदं नीत्वा स्वः सोधेषु प्रणयं अचिरात् अवश्यं संहरिष्यसि । Jain Education International 3 पार्श्वाभ्युदये For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy