________________
१३४
[ पार्धाभ्युदये
विश्रभ्येत्यादि । तां प्रसिद्धां । उत्तमर्दूि उत्तमा अनुत्तमा ऋद्धिः सुखं यस्याः सा । उक्तं च - 'ऋद्धिवृद्धिः सुखं सिद्धी रथाङ्ग मङ्गलं वसु । ऋद्धिपुष्टा ( सृष्टा) युगं योग्यं लक्ष्मीः सर्वजनप्रिया' इति । पुरी विशालानामधेयां नगरी प्राप्य गत्वा वलभिषु सौधोपरितनभागेषु । 'आच्छादनं स्याद्वलभिग्रहाणां' इति हलायुधः । उच्चैः नितरां विश्रम्य अध्वखेदापनयनार्थ स्थित्वा । तथा तेनैव प्रकारण अस्याः विशालायाः सौधैः सुधाधवलप्रासादैः । 'हेतौ सर्वाः प्रायः' इति हेतौ भा। स्वर्गावासप्रणयं । स्वर्गे आवासः निवासः निवासस्थानं वा। तत्र प्रणयः प्रेम आकाङ्क्षा वा । तम् । उररीकृत्य स्वीकृत्य । 'च्चिडाजूाद्यनुकरणं' इति क्रियायोगे तिसज्ञा । तस्यां च ल्यप् । जालोद्रीणः गवाक्षेभ्यो निःसृतः। 'जालस्तु क्षारकानायगवाक्षे दम्भवृक्षयोः ' इति विश्वलोचने । जालेभ्यो जालैर्वा उद्गीणः उद्वान्तः केशसंस्कारधूपैः । केशानां संस्कारः अलङ्करणं केशसंस्कारः । ' सम्पर्युपात्कुः सुड्भूर्षे' इति समः परस्य कृञः सुड्भूषार्थे । केशसंस्कारस्य धूपाः केशसंस्कारधूपाः तैः। धूपानां केशसंस्कारार्थत्वेऽपि यूपस्य दारुविकारत्वाद्विकार्यविकारकभावसद्भावाद्यथा यूपाय दारु यूपदारुरिति सः तथा संस्कारस्य धुपविकारत्वाभावाद्विकार्यविकारकभावाभावान्नाप्सः, अपि तु तास एव । उपचितवपुः परिपुष्टदेहः । उपचितं परिपुष्टं वपुः देहः यस्य सः । भवनशिखिभिः गृहमयूरैः बन्धुप्रीत्या । बन्धौ बन्धुरिति वा प्रीत्या प्रेम्णा दत्तनृत्तोपहारः। नृत्तं नृत्यं एव उपहारः उपायनं । नृत्तशब्दः पुलिङ्गोऽपि कोशान्तरेषु लभ्यते । ' नृत्तः स्यानतने क्रिमौ' इति विश्वलोचने 'उपायनमुपग्राह्यमुपहारस्तथोपदा' इत्यमरः । दत्तः नृत्तोपहारः यस्मै इति दत्तनृत्तोपहारः । मन्द्रातोद्यध्वनिषु । मन्द्राः आतोद्यानां वादिनविशेषाणां ध्वनयो येषु । तेषु । सततारब्धसङ्गीतकेषु । सततं निरन्तरं आरब्धं सङ्गीतकं येषु । 'गीतं वाद्यं नर्तनं च त्रयं सङ्गीतमुच्यते' इति सङ्गीतकलक्षणम् । कुसुमसुरभिषु। कुसुमानां सुरभिः सौगन्ध्यं इव सुरभिः येषां । तेषु । 'ईबुपमानपूर्वस्य द्युखं गतार्थत्वात् ' इति युखं । 'सुरभिश्चम्पके चैत्रे वसन्ते गन्धके कवौ । स्वर्णे जातीफले चाऽब्जे त्रिषु मद्यसुगन्धयोः। ख्याते च' इति विश्वलोचने । ललितवनितापादरागाङ्कितेषु । ललिताः सुन्दर्यश्च ताः वनिताः स्त्रियः ललितवनिताः । 'ललितं हारभेदे स्यात्रिष्वेव ललितेष्टयोः' इति विश्वलोचने । 'ललितं त्रिषु सुन्दरम्' इति शब्दार्णवे। तासां पादयोर्यो रागः लाक्षारसः आलक्तकरसो वा तेन अङ्कितेषु चिहितेषु अस्याः .विशालायाः हम्र्येषु इभ्वभवनेषु । श्रीमतामालयष्वित्यर्थः अध्वखिन्नान्तरात्मा। अध्वना मार्गक्रमणसङ्क्लेशेन खिन्नः सञ्जातखेदः श्रान्तः अन्तरात्मा अन्तःकरण यस्य सः । त्वं खेदं श्रमं नीत्वा अपनीय । अपसार्येत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org