SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ [ पार्श्वाभ्युदये ( " कृतिगणत्वात् । उद्गताः मयूखप्ररोहाः येषां तान् । शष्पश्यामान् । शप्पं बालतृणमिव श्यामाः हरिद्वर्णाः । तान् । शप्पं बालतृणं क्लीवं शष्पस्तु प्रतिभाक्षये ' इति श्यामस्तु हरिते कृष्णे प्रयागस्य वटद्रुमे । पिके पयोधरे वृद्धदारकेऽपि पुमानयं । श्यामवर्णे हरिद्वर्णे त्रिषु' इति च विश्वलोचने । सामान्येनोपमानं ' इति सामान्य - वाचिना श्यामशब्देन सहोपमानस्य शष्पशब्दस्य सः । मरकतमणीन् हरिन्मणीन् ' गारुत्मतं मरकतमश्मगर्भो हरिन्मणिः ' इत्यमर: । बिभ्रति धारयन्ति । , C , १३२ Wherein, the royal roads (or main streets), resembling the oceans with their water drunk up at the time of the destruction of the worlds, possess lofty heaps of jewels worthy of being measurad with winnowing-baskets, with faultless · ( or genuine ) pearls, and with big jems at their centres, crores of conches, shells and emeralds as green as young grass and shooting their rays upwards. भूयो नानाभरणरचनायोग्यरत्नप्रवेकाञ्ज्योति लेखारचितरुचिमच्छक्रचापानुकारान् । दृष्ट्वा यस्यां विपणिरचितान्विद्रुमाणां च भङ्गान् संलक्ष्यन्ते सलिलनिधयस्तोय मात्रावशेषाः ॥ ११६ ॥ अन्वय :-- भूयः यस्यां विपणिरचितान् ज्योतिर्लेखारचितरुचिमच्छक्रचापानुकारान् नानाभरणरचनायोग्य रत्नप्रवेकान् विद्रुमाणां भङ्गान् च दृष्ट्वा सलिलनिधयः तोयमात्रावशेषाः संलक्ष्यन्ते । भूय इत्यादि । भूयः पुनः यस्यां विशालाख्यनगर्यो विपणिरचितान् । विपणिषु पण्यवीथिकासु रचितान् प्रसारितान् । 'विपणिस्तु स्त्रियां पण्यवीथ्यामापणपण्ययोः' इति विश्वलोचने । ज्योतिर्लेखारचितरुचि मच्छक्रचापानुकारान् | - ज्योतिषां तेजसां लेखाः राज्यः ज्योतिर्लेखाः । ' ज्योतिर्भद्योतदृष्टिषु' इत्यमरः । ' लेखाराजीलिपिष्वपि ' इति विश्वलोचने । ताभिः रचितः रुचिमान् कान्तिमांश्चासौ शक्रस्येन्द्रस्य चापः धनुश्च । तस्यानुकारः अनुहारः सादृश्यं विद्यते येषां ते । तान् । अनुहारोऽनुकारः स्यात् ' इत्यमरः । नानाभरणरचनायोग्य रत्नप्रवेकान् । नाना अनेकविधान्याभरणानि अलङ्काराः भूषणानि नानाभरणानि । तेषां रचना । तस्या योग्याः रत्नप्रवेकाः रत्नोत्तमाः । तान् । रत्नानां प्रवेकाः अनुत्तमाः श्रेष्ठाः अतिशोभनाः वा । 'क्लीत्रे प्रधानं प्रमुखप्रवेकानुत्तमोत्तमाः ' इत्यमर: । विद्रुमाणां प्रवालमणीनां " Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy