________________
प्रथमः सर्गः]
१३१
यस्यां बिभ्रत्यवनिपपथा रत्नराशीनुदग्राञ्
शूर्पोन्मेयाञ्जलधय इवापीततोया युगान्ते । हारांस्तारास्तरलगुटिकान्कोटिशः शङ्कशक्तीः
शष्पश्यामान्मरकतमणीनुन्मयूखप्ररोहान् ॥ ११५ ॥ अन्वयः-यस्यां अवनिपपथाः युगान्ते आपीततोयाः जलधयः इव शूर्पोन्मेंयान् उदग्रान् रत्नराशीन् तरलगुटिकान् तारान् हारान् कोटिशः शङ्खशुक्तीः, उन्मयूखप्ररोहान् शष्पश्यामान् मरकतमणीन् बिभ्रति ।
यस्यामित्यादि । यस्यां उजयिनीनगर्यो अवनिपपथाः राजमार्गाः । अवनी पृथ्वीं पातीत्यवनिपः राजा। तस्य पन्थानः मार्गाः । तान् । 'ऋक्पूरप्पथोऽत् ' इत्यत्सान्तः । युगान्ते युगकालावसाने । प्रलयकाले इत्यर्थः । 'प्रशस्तरथसीराङ्गं युग्मेऽपि स्यात्कृतादिषु । युगं हस्तचतुष्केऽपि वृद्धिनामौषधेऽपि च' इति विश्वलोचने । आपीततोयाः शोषितजलाः । जलधयः इव सागराः इव । जलं धीयतेऽस्मिन्निति जलधिः। शुर्पोन्मेयान् । भूपैः प्रस्फोटनैः उन्मातुमर्हन्तीति शक्यन्ते इति वा शूर्पोन्मयाः । तान् । ' तृज्ब्याश्चाह ' इति अर्थेि । त्यः । 'शकि लिङ् च ' इति शक्यार्थे व्यः । 'प्रस्फोटनं शूर्पमस्त्री' इत्यमरः । उदग्रान अत्युनितान् । उद्गतानि अग्राणि प्रान्तप्रदेशाः शिखराकारभागाः येषां तान् । ' अग्रं त्रिषु प्रधाने स्यादग्रं मूर्धादिकादिषु । पुरस्तात्पलमाने च बातेऽप्यालम्बनान्तयोः' इति विश्वलोचने । रत्नराशीन् मणिसमूहान् । रत्नानां मणीनां राशयः पुञ्जाः समूहाः रत्नराशयः । तान् । ' राशिस्तु पुञ्ज पुंस्येव तथा मेषवृषादिषु' इति विश्वलोचने । तरलगुटिकान् मध्यगमहारत्नान् । तरलाः भासुराः हारमध्यगाः गुटिकाः महारत्नानि येषां ते । तान् । 'तरलश्चञ्चले खड्गे भासुरे त्रिषु पुंसि तु । हारमध्यमणौ' इति विश्वलोचने । ' पिण्डे मणौ महारत्ने गुटिका बद्धपारदे ' इति शब्दार्णवे । तारान् शुद्धमौक्तिकवतः । ताराः शुद्धमौक्तिकाः सन्त्यस्य ताराः। तान् । 'तारो मुक्तादिसंशुद्धौ तरणे शुद्धमौक्तिके' इति विश्वलोचने । 'ओऽभ्रादिभ्यः' इत्यत्यो। मत्वयः । हारान मुक्तावलीः। कोटिशः । कोटि कोटि कोटिशः। 'स्येकाद्वीप्सायां' इति वीप्सायां शस् । शङ्खशुक्तीः । शङ्खाश्च शुक्तयश्च मुक्तास्फोटाश्च शङ्खशुक्तयः । ताः शङ्खशुक्तीः। इब्बहुवचनम् । 'शुक्तिः शङ्खनखे शङ्ख मुक्तास्फोटेऽपि कम्बुनि' इति विश्वलोचने । उन्मयूखप्ररोहान् मयूखाः किरणाः प्ररोहाः अङ्कुराः इव मयूखप्ररोहाः । ' किरणोऽस्रमयूखांशुगभास्तघृणिरश्मयः' इत्यमरः । 'व्याघ्रादिभिरुपमेयोऽतद्योगे' इति मयूखोपमेयस्य प्ररोहोपमानेन सः सामान्ययोगे, व्याघ्रादेरा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org