________________
१३०
[ पार्श्वाभ्युदये
c
मरुन्मेषं निहन्ति तथा निघ्नन् । 'सुप इवे' इति गजमरुतोईनन क्रियातुल्यत्वात् उपमानभूतात् सुबन्तान्मरुतो वत्त्यः । उन्मदिष्णून् उन्मदिङ्कृन् । ' भूभ्राज्यलतृञ्प्रजनोत्पचोत्पते।न्मदरुच्यपत्रपवृद्वृद्ध्सहचर इष्णुः' इति इष्णुः सति काले । ' उन्मदिष्णुस्तून्मदिता' इत्यमरः । व्यालान् दुष्टगजान् श्वापदान् वा । C व्यालः शठे भुजङ्गे च श्वापदे दुष्टदन्तिनि' इति विश्वलोचने । कुपितसमवर्ती इव क्रोधान्धान्तकवत् । 'समवर्ती परतराट्' इत्यमरः । निघ्नन् घातयन् । नलागेरीः दमयन्तीशोधार्थं चङ्क्रम्यमाणेन नलनृपतिना चरणविन्यासेन पवित्रीकृतत्वाद्रामगिरिवत् नलगिरिरिति ख्याति - मापन्नः प्राक्कालभवः पर्वतविशेषः । नलगिरिरिव नलगिरिः । नलगिरिशरीराकाररूपादिमान् गजविशेषः । यद्वा नलगिरिरित्याख्यातः पाकशासनस्य स्तम्बेरमः । स इव नलगिरिः गजविशेषः। ‘देवपथादिभ्यः' इतीवार्थस्य कस्योस् । दर्पात् बलवत्त्वाभिमानात् । ' दर्पो । भवेदहङ्कारे दर्पो मृगमदेऽपि च ' इत्यमरः । स्तम्मं आलानस्तम्भं । गजबन्धनार्थं निखातं स्तम्भमित्यर्थः । उत्पाट्य आमूलादुद्धत्य उद्भान्तः उद्भ्रमति स्म । किल वार्तायाम् । इति च एवं च यत्र विशालायां अभिज्ञः प्राचीनैतिह्यकोविदः । जनः लोकः । आगन्तून् आगतान् । अतिथीनित्यर्थः । ' स्युरावेशिक आगन्तुरतिथिर्ना गृहागते' इत्यमरः ' आतिथ्योऽतिथिरागन्तु: ' इति माला च । बन्धून् बान्धवान् रमयति विनोदयति । अथवा प्रद्योतस्य तेजस्विनः । प्रकृष्ट द्योतः तेजः यस्य सः । तीक्ष्णस्य शत्रुभवङ्करस्य अरेः परिपन्थिनः कस्यचिद्राज्ञः प्रियदुहितरं प्रियात्मजां वत्समुरुण्डाधिपतिः अत्र उज्जयिनीविषयेऽत्र स्थाने जड्डे हृतवान् । अत्र मेघदूतकाराभिप्रेतार्थपरिवर्तनं कालव्यतिक्रमनिरासार्थमवसेयं सुधीभिः ।
Wherein the well-informed people entertain their relatives come there on a visit as : ' Here, oh friend ! it is reported, did the king of the Vatsas and the Murundas, a veteran warrior in a fight, destroy the elementary divisions, which are like daughters, of the Karman, the ferocious enemy of the soul possessing perfect knowledge (under the cover of Karman); here where women are regaling their children by means of mirth and narration, was the grove of Tala trees, possessing a golden yellow colour ( or possessing coolness ); here, it is reported, did an elephant immitating the bodily form etc. of the Nalgiri (mountain named after the king Nala who sanctified it with his foot-prints), butting against the mountain with his mountain-like body, destroying like the angry god of death the wild beasts or elephants like the wind destroying clouds, wander about, having uprooted the post (meant for tying him ) through rashness.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org