SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः। १२९ (तस्मिन् ) अत्र (प्रदेशे) तस्य एव राज्ञः हैमं तालद्रुमवनं अभूत् ' इति, ' शैल. प्रतिमवपुषा शैलं पीडयन् ' मेघ मरुद्वत् उन्मदिष्णून व्यालान् कुपितसमवर्ती इव निघ्नन् नलगिरिः दात् स्तम्भं उत्पाटय अत्र उङ्ग्रान्तः किल ' इति (च) यत्र अभिज्ञः - जनः आगन्तून् बन्धून् रमयति । तीक्ष्णस्येत्यादि । प्रिय हे मित्र युद्धशौण्डः युद्धविद्यानिपुणः । युद्धे शौण्डः युद्धशौण्डः । ' ईप् शौण्डैः' इति ईप् । मुरुण्डः मुरुण्डानां राजा। मुरुण्डः लम्पकदेशः इति हेमचन्द्रः । मुरुण्डानां राजा मुरुण्डः । 'उप् चोलादेः' इति राजप्रत्ययस्यो । 'सर्वत्र बहथुप्' इति, 'स्वभावतः पञ्चालादिशब्देन राष्ट्र राजा चाऽभिधीयते' इति चोक्तं महावृत्तौ । वत्सराजः। वत्सानां राजा शासिता वत्सराजः। 'राजाहःसखिभ्यष्टः इति टः सान्तः । अत्र वत्सराजशब्देन उदयनस्य ग्रहणं नेष्टं मुरुण्डः इति विशेषणात् मुरुण्डाधिपतित्वाभावादुदयनस्य तस्य मुरुण्डदेशाधिपत्वाभावाद्भगवच्छ्रीपार्श्वनाथतीर्थकरपरमदेवसमसमयवर्तित्वाभावाच्च । अतोऽनेनान्येन केनचिदुदयनराजपूर्ववर्तिना पार्श्वसमकालसम्मवेन कौशाम्बीपतिना भाव्यमिति सुस्पष्टतामाटीकते । कलहे युद्धे । यद्वा आत्मकर्मणोरन्योन्यं विजिगीष्वोः अनादेः कालात्प्रवृत्ते युद्धे । प्रद्योतस्य प्रकृष्टः प्रगतः वा द्योतः आत्मतेजः यस्य सः। तस्य । प्रादिवसः। शुद्धनिश्चयापेक्षया प्रकृष्टतेजसः आत्मनः तीक्ष्णस्य उग्रस्य । भयङ्करस्येत्यर्थः । अरेः शत्रोः। करेिरित्यर्थः । दुहितरं दुहिततुल्यकर्मप्रकृतिं । दोग्धि पितराविति दुहिता । दोग्धीत्यनेन पित्रोधनमपहरतीत्यर्थो रूढो यौगिक़श्च । कर्मप्रकृतयोऽपि स्वजनकस्यात्मनः स्वं आत्मस्वरूपरूपं धनमपहरतीतिकर्मप्रकृतेः दुहित्रा तुल्यत्वं । दुहितेव दुहिता । कर्मप्रकृतिः। 'देवपथादिभ्यः' इतीवार्थस्य कस्योस् । दुहितरमित्येकवचनं जातिनिबन्धनमिति दुहितरमित्यस्य दुहितः इत्यर्थः । तेन सर्वासां कर्मप्रकृतीनां ग्रहणं कर्तव्यम् । अत्र उज्जयिन्याः कस्मिंश्चिद्भूप्रदेशे। किलेति वार्तायां । जह्वे विनाशितवान् । इति एवं यत्र यस्मिन् (प्रदेशे) स्त्रीजनः स्त्रियः बालान् स्वार्भकान् हासालापैः हासैः आलापैश्च रमयति विनोदयति तस्मिन् प्रदेशे अत्र तत्प्रदेशस्थेऽस्मिन् स्थाने तस्य एव राज्ञः वत्समुरुण्डानामधिपतेः एव हैमं शैत्ययुक्तं सुवर्णवर्ण वा तालदुमवनं तालद्रुमाणां प्रोन्नतवृक्षविशेषाणां वनं काननं अभूत् आसीत् इति एवंप्रकारेण । शैलप्रतिमवपुषा शैलतुल्यशरीरेण। शैलप्रतिमं शैलानुकारि वपुः शरीरं शैलप्रतिमवपुः । तेन । 'प्रतिमाऽनुकृतौ दन्तबन्धनेऽपि च दन्तिनाम् ' इति विश्वलोचने । यद्वा शैलेन प्रतिमीयते इति शैलप्रतिमं । 'प्रतिमानं प्रतिबिम्बं प्रतिमा प्रतियातना प्रतिच्छाया' इत्यमरः । शैलं पर्वतं पीडयन् मर्दयन् । मेघ मरुद्वत् यथा पाव भ्युदये ९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy