SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ १२८ [ पार्श्वभ्युदये प्रणुन्नाः अम्बुकणाः । 'शीकरः सरले वातनिःसृताम्बुकणेषु च ' इति विश्वलोचने । आसारा: प्रसराः। ओघाः इत्यर्थः । शीकराणां वातेरिताम्बुकणानां आसाराः प्रसराः। तान् वह तीति शीकरासारवाही। धूतोद्यानः प्रकम्पितोपवनः मदमधुलिहां आनन्दिनां भ्रमराणां । मदाः मदिनः। मदः हर्षः अस्त्येषामिति मदाः । 'ओऽभ्रादिभ्यः' इत्यो मत्वर्थीयः । मधु लिहन्तीति मधुलिहः । मदाः हर्षिताः मधुलिहः भ्रमराः मदमधुलिहः । तेषां । सिञ्जितानि रसितध्वनीन् अव्यक्तान् । व्यञ्जयन् प्रकाशयन् । प्रियतमः इव वलभः इव | प्रार्थनाचाटुकारः प्रार्थनायां सुरतयाचनार्थे चाटुः प्रियवचनं प्रार्थनाचाटुः । तं करोतीति प्रार्थनाचाटुकारः। 'कर्मणोऽण्' इत्यण् । निधुवनविधेरनन्तरं पुनः प्रादुर्भूतसुरताभिलाषः पुनः सुरतभोगप्राप्त्यर्थं स्वप्रेयसी प्रार्थयन् यथा प्रियवचनं प्रयुनक्ति तथा प्रियवचनं प्रयोजयन् अङ्गानुकूलः अङ्गनानां अङ्गानां शरीराणां अनुकूलः सुखस्पर्शः । शिप्रावातः शिप्रासलिलोस्थितकल्लोलान्तरप्रदेशवाही वातः वायुः । शिप्राग्रहणमत्र शैत्यद्योतनार्थे । स्त्रीणां योषिता निधुवनविधिजनितक्लमक्लिन्नानां सुरतग्लानिं पूर्वनिधुवनजनितश्रमं हरति दूरमपसारयति । Where the breeze (blowing ) from above the Siprā, cool on account of its blowing through the waves, carrying the masses of sprays, setting the gardens in motion, displaying the buzzings of the gladdened bees, speaking gallantly like a lover requesting his beloved for sexual enjoyment, agreeable to the body, dispels the fatigue of women caused by enjoyment. तीक्ष्णस्याऽरेः स किल कलहे युद्धशौण्डो मुरुण्ड: . प्रद्योतस्य प्रिय ! दुहितरं वत्सराजोऽत्र जहे हैमं तालद्रुमभवनमभूदा तस्यैव राशः हासालापैरिति रमयति स्त्रीजनो यत्र बालान्॥११३॥ शैलं शैलप्रमितवपुषा पीडयन्नुन्मदिष्णून निघ्नन् व्यालान कुपितसमवर्तीव मेघ मरुद्वत् । अत्रोद्धान्तः किल नलगिरिः स्तम्भमुत्पाट्य दर्पा दित्यागन्तून् रमयति जनो यत्र बन्धूनभिशः ॥ ११४ ॥ अन्वय :-'प्रिय ! सः युद्धशौण्डः मुरुण्डः वत्सराजः कलहे प्रद्योतस्य तीक्ष्णस्य अरेः दुहितरं अत्र किल जहे । यत्र स्त्रीजनः बालान् हासालापैः रमयति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy