SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः] १२७ लोचने । कूजितं स्तनितं । दीर्घाकुर्वन् । अदीर्घ दीर्घ सम्पद्यमानं करोतीति दीर्घा. करोति । दीर्धीकरोतीति दी/कुर्वन् । 'सल्लटः' इति सति शतृत्यः। 'कृभ्वस्तियोगेऽतत्तत्त्वे सम्पत्तरि च्विः' इति च्विः । स्फावयन् वृद्धिं नयन्वेत्यर्थः । स्फुटितकमलामोदमैत्रीकषायः । स्फुटितानि विकसितानि च तानि कमलानि उत्पलानि स्फुटितकमलानि । तेषामामोदः सुगन्धः । तेन या मैत्री मित्रत्वं । संसर्ग इत्यर्थः । तया कषायः सुरभितः। कषायः सुरभिगन्धः अस्य अस्तीति कषायः । 'ओऽभ्रादिभ्यः' इत्यः। 'अस्त्री कषायो निर्यासे रसे रक्ते विलेपने । अङ्गरागे सुगन्धे तु त्रिषु स्यालोहितेऽपि च' इति विश्वलोचने । मातरिश्वा प्रभञ्जनः । मातरि व्योम्नि श्वसिति मातरिश्वा सदागतिः वायुः । ' श्वसनः स्पर्शनो वायुः मातरिश्वा सदागतिः' इत्यमरः। यस्यां नगर्यो विशालाख्यायां । प्रत्यूषेषु अहर्मुखेषु । दिवसारम्भे इत्यर्थः । 'प्रत्यूषोहमुखे पुंसि प्रत्यूषो वसुदैवते' इति विश्वलोचने । अकणोघेः । अपां जलस्य कणाः बिन्दवः अप्कणाः। तेषां ओघाः समूहाः। तैः । 'ओघः पाथःप्रवाहे च समूहे च पुमानयम्' इति विश्वलोचने । सञ्चरति प्रवहति । वातीत्यर्थः । Where the wind, bending the lofty trees grown in the gardens, very cool owing to the disturbance of waves, prolonging the shrill notes of cranes (or swans ), indistinct yet sweet owing to their being intoxicated, fragrant owing to its association with the perfame of the lotuses burst into flowers, blows along with the masses of the drops of water at day-break. कल्लोलान्तर्वलनशिशिरः शीकरासारवाही __ धूतोद्यानो मदमधुलिहां व्यञ्जयन् सिञ्जितानि । यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूल: शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः॥ ११२ ॥ अन्वय :- यत्र कल्लोलान्तर्वलनशिशिरः, शीकरासारवादी, धूतोद्यानः, मदमधुलिहां शिञ्जितानि व्यञ्जयन् , प्रियतमः इव प्रार्थनाचाटुकारः अङ्गानुकूल: शिप्रावातः स्त्रीणां सुरतग्लानि हरति । कल्लोलेत्यादि । यत्र विशालाख्यायां नगर्या कल्लोलान्तर्वलनशिशिरः वीच्यन्तरप्रदेशभ्रमणजनितशीतस्पर्शः । कल्लोलानां वीचीनामन्तःमध्ये वलनं भ्रमण।तेन शिशिरः शीतस्पर्शः । शीक रासारवाही वातप्रणुन्नाम्बुकणान् वहन् । शीकराः वात Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy