SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ १२६ [ पार्श्वभ्युदये स्वल्पीभूते स्वल्पतां । गते गांभुवं । 'गौरिला कम्भिनी क्षमा' इत्यमरः। गतानां । प्राप्तानां स्वर्गिणां स्वर्गभुवां देवानां अवशिष्टैः पुण्यैः सुकृतैः दिवः स्वर्गात् हृतं अपनीतं भुवि आनीतं च एक भुक्तावशिष्टं अन्यत् कान्तिमत् उज्ज्वलं । कान्तिरस्यास्तीति कान्तिमत् । तदस्याऽस्तीति मतुः' इति मतुः । वण्डं इव शकलं इव तां पुरी उज्जयिनी व्यावर्ण्य वर्णयित्वा अलं पर्याप्तम् । 'निषेधेऽलंखल्वोः क्त्वा' इति क्वा। Enough of describing that city, highly praised by the whole world, possessing excellent glory, the eternal abode of the goddess of wealth (or glory ), the only source of happiness or wealth, an unpararalleled sbioing piece of heaven stripped off on account of the remaining portions of merit of the residents of heaven gone down to the earth owing to the friut of their good deeds being reduced to a very small scale or measure. यस्यामुच्चैरुपवनतरून्नामयन्मातरिश्वा वीचिक्षोभादधिकशिशिरः सञ्चरत्यकणौधैः । दीर्घाकुर्वन्पटु मदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः ॥ १११ ॥ अन्वयः- उच्चैः उपवनतरून् नामयन् , वीचिक्षोभात् अधिकशिरः, सारसानां पटु मदकलं कूजितं दी/कुर्वन्, स्फुटितकमलामादेमैत्रीकषायः मातरिश्वा यस्या प्रत्यूषेषु अप्कणौघैः सञ्चरति । यस्यामित्यादि । उच्चैः उन्नततरान् उपवनतरून् आरामोद्भूतान् तरून् । नामयन् प्रह्वीकुर्वन् । नतान् कुर्वन्नित्यर्थः। वीचिक्षोभात् कल्लोलप्रक्षोभात् । वीचीनां कल्लोलानां क्षोभः उच्चलनं तस्मात् । प्रभजनोचलितजलजनितकल्लोलत्वादित्यर्थः । अधिकशिशिरः । अधिकं अत्यर्थं शिशिरः शीतः अधिकशिशिरः । तुहिनकणवाहिवातो यथाऽधिकशिशिरस्तथा वायूच्चालितसलिलोत्यकल्लोलप्राक्षप्तशीकरासारवाहित्वाजनिताधिकौत्य इत्यर्थः । सारसानां पक्षिविशेषाणां । 'सारसो मैथुनी कामी गोनर्दः पुष्कराह्वयः ' इति यादवः । 'सारसः पक्षिचन्द्रयोः ' इति विश्वलोचने । यद्वा सारसानां हंसानां । 'चक्राङ्गः सारसो हंसः' इति शब्दार्णवे । पटु प्रस्फुटम् । मदकलं मदेन कलं मधुराव्यक्तं । 'कलस्तु मधुराव्यक्तःशद्वेऽजीर्णे कलं सिते' इति विश्वलोचने। 'पटुर्वाग्मिनि नीरोगे तीक्ष्णे दक्षे स्फुटे त्रिषु ' इत्यपि विश्व Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy