SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः ] १२५ " येषु तान् । अवन्तीन् अवन्तीनामजनपदान् प्राप्य श्रीविशालां सम्पदः निवासभूमिं । श्रियः सम्पदः विशिष्टाः विविधाः शाला: निवासस्थानानि श्रीविशालाः । ताः सन्त्यस्याः श्रीविशाला । ' ओऽभ्रादिभ्यः ' इत्यः । तां । 'शाला वेश्मनि वेश्मैकप्रदेशे स्कन्धशाखये।ः इति विश्वलोचने । विशालां विशालापराभिधानामुज्जयिनीं । 'विशालाञ्जयिनी समे ' इत्युत्पलः । पूर्वोद्दिष्टां पूर्वोक्ता । पूर्व उद्दिष्टां निवेदितनामधेयां। 'सौधोत्सङ्ग प्रणयविमुखो मा स्म भूरुज्जयिन्याः' इति ' वक्रोऽप्यध्वा' इति च ( १ १०३ ) श्लोकयोः निवेदितनामधेयामित्यर्थः । पुरीं नगरी उपसर गच्छ । ८ Though, on your way, there would be, thus, a possibility of having various emergent occupations, you, having completed immediately the remaining journey through fear of your main purpose being defeated, (and) having reached the Avanti country possessing in the villages old people well-versed with the stories regarding persons that had attained liberation, should proceed on to the big city called Visbālā abounding in wealth ( or glory ), already referred to above. व्यायलं भुवनमहितां तां पुरीमुत्तमार्द्ध लक्ष्म्याः शश्वन्निवसनभुवं सम्पदामेकसूतिम् । स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां शेषैः पुण्यैः हृतमिव दिवः कान्तिमत्खण्डमेकम् ॥ ११० ॥ अन्वय : भुवनमहितां, उत्तमर्द्धि, लक्ष्म्याः शश्वन्निवसनभुवं, सम्पद एकसूर्ति, सुचरितफले स्वस्पीभूते गां गतानां स्वर्गिणां शेषैः पुण्यैः दिवः हृतं एकं कान्तिमत् खण्ड इव तां पुरीं व्यावर्ण्य अलम् । व्यावर्णेत्यादि । तां विशालापराभिख्यां उज्जयिनीं भुवनमहितां भुवनेन तात्स्थ्यात् तत्रत्यैः निखिले: जनैः महितां पूजितां स्तुतिविषयतां नीतां उत्तमार्द्ध उत्कृष्टश्वर्यवतीं । उत्तमा उत्कृष्टा ऋद्धिः ऐश्वर्यं यस्याः सा । ताम् । उक्तं च- 'ऋद्धि वृद्धिः सुखं सिद्धी रथाङ्ग मङ्गलं वसु । ऋद्धिसृष्टा युगं योग्यं लक्ष्मीः सर्वजनप्रिया ॥' इति । लक्ष्म्या श्रियः शश्वन्निवसनभुवं शाश्वतिकं निवासस्थानं । सम्पदां श्रियां घनानां वा एकसूर्ति एक अद्वितीयां सूर्ति उत्पत्तिस्थानं । 'एकस्तु स्यात्रिषु श्रेष्ठे केवलेतर - योरपि ' इति विश्वलोचने । सूयतेऽस्यामिति सूतिः । सुचरितफले । सुचरितस्य पुण्यस्य शुभकर्मणः वा फलं सुचरितफलं । तस्मिन् । सुचरित फलमत्र स्वर्गसुखोपलक्षणम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy