________________
पार्श्वभ्युदये
your good fortune by her state of separation ( from you ), would give up her emaciation.
सत्यप्येवं पथि बहुविधे संविधानानुषड़े
मुख्यस्वार्थप्रतिहतिभयादाशु गत्वाऽध्वशेषम् । प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्धान् पूर्वोद्दिष्टामुपसर पुरी श्रीविशालां विशालाम् ॥ १०९ ॥
अन्वयः- पथि एवं बहुविधे संविधानानुषङ्गे सति अपि मुख्यस्वार्थप्रतिहतिभयात् अवशेष आशु गत्वा उदयनकथाकोविदग्रामवृद्धान् अवन्तीन् प्राप्य श्रीविशाला विश्वाला पूर्वोद्दिष्टां पुरी उपसर ।
__ सतीत्यादि । पथि अवन्तीमार्गे एवं उक्तप्रकारेण बहुविधे नानाप्रकारके संविधानानुषङ्गे विधेयविधानप्रसक्तौ । संविधानानां विधेयकर्मणां अनुषङ्गः प्रसक्तिः तस्मिन् । सति अपि । 'यद्भावाभावगतिः' इति ईप् । प्राप्ते सत्यपीत्यर्थः । मुख्यस्वार्थप्रतिहतिभयात् प्रधानभूतस्वप्रयोजनविघातमीतेः । हेतौ का । स्वस्य स्वकीयस्य अर्थः प्रयोजनं स्वार्थः । 'अर्थः प्रयोजने चित्त हेत्वभिप्रायवस्तुषु । शब्दाभिधेये विषये स्यानिवृत्तिप्रकारयोः ' इति विश्वलोचने । मुख्यः प्रधानभूतश्चासौ स्वार्थश्च मुख्यस्वार्थः । तस्य प्रतिहतिः विघातः। तस्याः भयं । तस्मात् । विघातस्य भयहेतुत्वात् का। अध्वशेष अवशिष्ट पन्थानं । अध्वनः शेषः अध्वशेषः । तम् । आशु शीघ्रं गत्वा अतिक्रम्य । उदयनकथाकोविदग्रामवृद्धान् । उर्ध्वगामिमुक्तजीवेतिहासकुशलग्रामवृद्धान् । उत् ऊर्ध्व अयनं गमनं येषां ते उदयनाः मोक्षशिलां प्रति प्रस्थिताः तत्रत्याः जनाः । मुक्ताः इत्यर्थः। अत्रोदयनशब्दस्य कालव्यतिक्रमप्रसङ्गात् उदयनराजार्थग्रहणमयुक्तं पाश्र्वोदयनयोः समसमयसम्भवित्वाभावादुदयनराजस्य वीरसमयसम्भवित्वाच्च । अतः प्रोक्त एवार्थः अत्र ग्राह्यः । उदयनानां तत्रत्यानां प्राक्तनकालभाविनां मुक्ताना याः कथाः ऐतिह्यानि तासां कोविदाः तज्ज्ञानकुशलाः उदयनकथाकोविदाः। विदन्तीति विदाः । 'ज्ञाकगृप्रीगुङः कः' इति विदेरिगुत्वात्कः । ओकसो वेद्यस्य स्थानस्य विदाः केविदाः । ओकसः। ओवर्णनाशात् पृषोदरादयः' इति साधुः। उक्तं च-'वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ । धूनां तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तं ' ॥ अत्रोदाहरणानि यथा-' भवेद्वर्णागमाद्धंसः सिंहो वर्णविपर्य. यात् गूढोत्मा वर्णविकृतेः वर्णनाशात्पृषोदरम्॥ उदयनकथाकोविदाः ग्रामवृद्धाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org