SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ १२२ [पार्धाभ्युदये 'ज्ञाकृगुप्रीगुङः कः' इति रुहेरिगुत्वात्कः। यद्वा रोहतीति रुहः । पूर्ववत्कः । तटयोः रुहः येषां ते तटरुहाः । ' तटयो रहा ये तरवः ' इति मल्लिनाथोक्तिदुनिर्वहा । तटरुहाश्च ते तरवश्च तटरुहतरवः । तेभ्यः भ्रश्यन्तीति तटरुहतरुभ्रंशीनि । तैः । जीर्णपणैः । जीर्णानि च तानि पर्णानि च जीर्णपर्णानि । तैः । शुष्कपर्णैः जीर्णत्वाच्छिथिलितबन्धत्वादधोगलितैः पाण्डुच्छायैः पर्णरित्यर्थः । पाण्डुच्छाया पाण्डुवर्णा । पाण्डुः सिता च्छाया कान्तिः वर्णो वा यस्याः सा पाण्डुच्छाया । जीर्णपर्णप्रपतनप्रादुर्भूतपाण्डुरिम्नोऽपि तस्याः विरहावस्थासञ्जनितवैवर्ण्यमत्र ध्वनितमित्यवसेयं । सिन्धुः सिन्ध्वाभिधाना नदी । 'सिन्धुरब्धौ नदे देशभेदे ना सरिति स्त्रियां' इति विश्वलोचने । 'तामतीतस्य' इत्यस्य स्थाने 'असावतीतस्य' इति पाठान्तरमुररीकृत्य असौ पूर्वोक्ता सिन्धु दी निर्विन्ध्या इत्युक्त्वा सिन्धुनिर्विन्ध्ययोरैक्यं व्यवस्थापितवान् मलिनाथः । प्रकृतपाठानुसारेण तु तयोर्भेद एव संलक्ष्यते । कश्मीरवाहिनः सिन्धुनदस्य नात्र सम्भवः इति कृत्वा तेन पाठान्तरमाश्रित्य सिन्धुनिर्विन्ध्ययोरैक्यं व्यवस्थापितं,किन्तु तदज्ञानविलसितमेव निर्विन्ध्यागम्भीरयोमध्ये सिन्ध्वभिधानायाःस्वल्पसरित: विद्यमानत्वात्। अतः 'तामतीतस्य' इत्येष एव पाठः समीचीनत्वात्समाश्रयणीयः। धृष्टा अविनीता लोकविरुद्धवृत्तित्वाद्वियाता वा । शिथिलवसना श्लथवस्त्रा परित्यक्त. परिधानीया वा अङ्गना इव कामिनीव हंसश्रेणीकलविरुतिभिः इंसानां श्रेण्यः पङ्कतयः हंसश्रेण्यः । तासां कलाः गम्भीराः विरुतयः आरावाः । ताभिः । अत्र हंसशब्दः हंसक पादकटकं स्मारयति, 'हंसवत्कायति शब्दं करोतीति हंसकः' इति तन्निरुक्तेः । त्वां भवन्तं उपाह्वयन्ती इव समीपं शब्दयन्ती इव दृश्यते लक्ष्यते । On the way of you who would have passed beyond her (Nirvindhya ), the Sindhu, on account of her having very little water assuming the form of a braid-like stream and assuming lustre pale owing to the old dry leaves dropped down from the trees grown on her banks, would be seen as if inviting you through the charming chirpings of the rows of swans like a bold woman with her garment loosened. क्षामाऽऽपाण्डुः प्रतनुसलिला वेणिकां धारयन्ती हंसस्वानरिव विदधती प्रार्थनाचाटुमेषा । सौभाग्यं ते सुभग ! विरहावस्थया व्यञ्जयन्ती काय येन त्यजति विधिना स त्वयैवोपपाद्यः ॥ १०८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy