________________
प्रथमः सर्गः ]
१२१ निर्विन्ध्याकृतप्रार्थनमन्तरेणापि तद्रसोऽनुभवनीयः, तथा नाभिसन्दर्शनादिना रसप्रदानायस्य स्वाभिप्रायस्य तदर्थगर्भवचनोच्चारणमन्तरेणाऽप्याविष्कृतत्वादित्यभिप्रायः ।
On your way, having approached, imbibe the water of the Nirvindhya (also enjoy her love'), manifesting (expressing) as if clearly her eagerness for you without any articulate expression displaying the arrival of her relative (i. e. you, her lover ) bashfully turning round a little, for love-gesture in regard to their lovers is the first expression of love of women.
हंसश्रेणीकलविरुतिभिस्त्वामिवोपाह्वयन्ती
धृष्टा मार्गे शिथिलवसनेवाङ्गना दृश्यते ते । वेणीभूतप्रतनुसलिला तामतीतस्य सिन्धुः
पाण्डुच्छायातटरुहतरुभ्रंशिभिर्णिपणैः ॥ १०७ ॥
अन्वय :- तां अतीतस्य ते मार्गे वेणीभूतप्रतनुसलिला तटरुहतरु-शिभिः जीर्णपणैः पाण्डुच्छाया सिन्धुः धृष्टा शिथिलवसना अङ्गाना इव हंसश्रेणीकलविरुतिभिः वां उपाह्वयन्ती इव दृश्यते ।
हंसेत्यादि । तां निर्विन्ध्याभिधानां नर्दी अतीतस्य अतिक्रान्तस्य ते तव मार्गे अध्वनि वेणीभूतप्रतनुसलिला अवेणी वेणी भवति स्म वेणीभूतं । वेणी इव वेणी । 'देवपथादिभ्यः' इतीवार्थस्य कस्योस् । नात्र वेणींशब्दस्य विशेष्यभूतसलिललिङ्गत्वं सम्भवति 'युक्तबसि लिङ्गसङ्ख्ये' इति तल्लिङ्गस्य विधानात्, यथा चच्चा पुरुषः । अतः अवेणीवेणीशब्दयोः सलिलविशेषणत्वेऽपि न तलिङ्गत्वं सम्भवति । तेन च 'अवेणी वेणी भवति स्म ' इत्येव वक्तव्यं, न 'अवेणि वेणीभूतं ' इति, शब्दशास्त्रविरोधात् । अतः 'अवेणि वेणीभूतं वेण्याकारं ' इति मल्लिनाथोक्तिश्चिन्त्या । 'कृभ्वस्तिव्योगेऽतत्तत्त्वे सम्पत्तरि च्विः' इति चिः। 'दीश्व्यकृद्द्रे' इति दीः। 'वेणी तु केशबन्धे जलस्रुतौ' इति यादवः । इकारान्तवेणिशब्दाश्रयणे तु विसर्गलोपाभावः प्रसज्यते । अलुप्तेवार्थकप्रत्ययस्य वेणीशब्दस्य ग्रहणे तु तत्स्रोतसः केशविन्याससदृशाकारार्थानवाप्तिः । स्रोतोऽर्थग्रहणे तु विरूपप्रयोगासम्भवः । वेणीभूतं प्रतनु सलिलं यस्याः सा। तत्सलिलस्य प्रतनुत्वं प्राप्तस्य वेणीभूतत्वकल्पनमिति भावः । तटरुहतरुभ्रंशिभिः तटयोः रोहन्तीति तटकहः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org