________________
११८
[ पार्श्वाभ्युदये
विद्युद्दाम स्फुरितच कितैर्यत्र पौरइङ्गनानां लोलापाङ्गैर्यदि न रमसे लोचनैर्वञ्चितः स्याः ॥ १०४ ॥
अन्वय : -- यत्र पौराङ्गनानां विद्युद्दामस्फुरितचा कतैः लोलापाङ्गैः कुसुमघनुषः दृढपरिचितभ्रूधनुर्यष्टमुक्तैः मर्माविद्भिः अमोघैः दूरपातैः जैत्रैः बाणैः यदि न रमसे ( तदा ) लोचनैः वञ्चितः स्याः ।
<
1
जैत्रैरित्यादि । यत्र उज्जयिनीनगर्यो पौराङ्गनानां नागरयोषितां । पुरे भवाः पौराः । ' तत्र भवः' इत्यण् । पौराणां नागराणां अङ्गनाः सुन्दरस्त्रियः पौराङ्गनाः । तासाम् । लक्ष्मणविषुणाङ्गनाः ' इति निपातः । शोभनानि अङ्गानि यस्याः सा अङ्गना । विद्युद्दामस्फुरित चर्कितैः । विद्युत् दाम इव विद्युद्दाम । तस्याः स्फुरितानि स्फूर्जितानि तैः चकितैः प्रदीप्तैः । लोलापाङ्गैः लोलाश्वलाः सतृष्णाः वा अपाङ्गाः नेत्रान्ताः येषां ते तैः । यद्वा लोलाश्च चञ्चलाश्च ते अपाङ्गाः नेत्रान्तदेशाश्च लोलापाङ्गाः । तैः । ' अपाङ्गौ नेत्रयोरन्तौ ' इति 'लोलश्चलस तृष्णयोः ' इति चामरः । ' अपाङ्गस्त्वङ्गविकले नेत्रान्ते तिलके पुमान्' इति 'लोलः सतृष्णचलयोस्त्रिपु' इति च विश्वलोचने । कुसमधनुषः पञ्चवाणस्य । कुसुमान्येव धनुः यस्य सः । तस्य । वसन्तर्तुप्रादुर्भूतनानाविधसुरभिसुमदर्शनसञ्जनितत्वान्निधुवनाभिलाषरूपकामस्य तज्जननसाधनानां आयुधत्वोपचारे तज्जनितकामस्य अपि कुसुमधनुरित्यादिलोकव्यवहारः औपचारिक एवेत्यवसेयम् । दृढपरिचितधनुयष्टिमुक्तैः दृढं परिचिताः भ्रुवः भ्रुकुट्य एव धनुर्यष्टयः । ताभिः मुक्ता तस्या मुक्ता वा । तैः । कामाकुलललनाजनमुखविरचितविकटभ्रुकुटिधनुर्यष्टिकादर्शनात्कामोत्पत्तेर्यूनां भ्रुकुट्याः धनुर्यष्टित्वेन निर्देशः | मर्माविद्भिः । मर्माणि सन्धिस्थानानि । विध्यतीति विघ् । क्विप् । मर्मणां विघ् मर्माविघ् । ' नहिवृतिवृषिव्यधिरुचिसहितनौ कौ वाग्गेः इति क्वित्रन्ते परे वाचो मर्मशब्दस्य दी: । अमोघैः सफलपातैः । पातमात्रेण स्वकार्यं कामोत्पादनरूपं विदधद्भिः। न मोघाः विफलाः अमोघाः । तैः । ' मोघं निरर्थकं ' इत्यमरः । दूरपातैः । दूरे पातःयेषां ते दूरपाताः। तैः। युवहृदयानामतिसूक्ष्मत्वादिन्द्रियागोचरत्वाद्दूरत्वं । दविष्ठदेशस्थितानामर्थानामिन्द्रियागोचरत्वादेव दूरत्वं व्यवस्थाप्यते । अतः दूग्शब्देनात्रातिसूक्ष्मं युवहृदयं ग्राह्यम्। जैत्रैः जयनशीलैः जेतेत्र जैत्रः । जेतृशब्दस्य तृन्नन्तत्वात् 'प्रज्ञादिभ्यः’ इत्यण् । तॆन जेतृभिरित्यर्थः । बाणैः शङ्कुभिः यदि चेत् न रमसे आनन्दकन्दलितस्वान्तः न भविष्यसि तदा लोचनैः नेत्राभ्यां । वञ्चितः विकलः स्याः असीति सम्भावये । सम्भावनार्या लिङ् ।
,
Jain.Education International
For Private & Personal Use Only
www.jainelibrary.org