SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः] कुटिलः अनृजुः अपि जगति लोके मतः जनैः आदृतः भवति । उत्तराशां उदीची दिशं । उत्तरा उदीची चासौ आशा दिक् च तां । प्रस्थितस्य गन्तुमारब्धवतः । आद्य. कर्मण्यत्र क्तः । भवतः तव पन्थाः मार्गः यदपि यद्यपि वक्र: आर्जवविकलः तदपि कासिकाग्रार्जुनान्तात् ।कामानां काण्डेक्षणा समूहः कासिकम्। 'हस्तिकवच्यचित्ताच्च ठण्' इति समूहार्थे ठण् । ' कासः काण्डेक्षुरुद्दिष्टः' इति क्षीरस्वामी।तथान्यः 'इक्षुगन्धः स्यात् इक्षुरः कोकिलाक्षकः कासः काण्डक्षुरुद्दिष्टः काकेक्षुर्वायसेक्षुकः' इत्युद्धृतममरकोशटीकायां क्षीरस्वामिना। काण्डक्षुश्च इक्षुसहक्काण्डत्वात् । यद्वा काशःतृणविशेषः। 'काशते काशः कोकिलाक्षपर्यायः । इक्षुगन्धेत्येके ' इति क्षीरस्वामी अमरकोशटी. कायामेवान्यत्र । कासिकमग्रे यस्य सः कासिकामः । अर्जुनाः ककुभवृक्षाः अन्ते यस्य सः अर्जुनान्तः ।' अर्जुनः पार्थककुभकार्तवीर्यशिखण्डिषु ' इति विश्वलोचने । कासिकानश्वासावर्जुनान्तश्च कासिकाग्रार्जुनान्तः तस्मात् । वनपथात् आरण्यकामागोत् । 'ऋक्पूरप्पथोऽत्' इत्यत्सान्तः । वनपथमारुह्येत्यर्थः । 'प्यखे कर्माधारे' इति का प्यखे । ननु अनुनये । ' ननु प्रश्नावधारणे । नन्वनुज्ञावितर्कायमन्त्रष्वनुनये ननु ' इति विश्वलोचने । यातुं गन्तुं शक्यम् । ततः उज्जयिन्याःतदाख्यनगर्याः सौधोत्सङ्गप्रणयविमुखः । विपरीतं विरुद्धं वा मुखं यस्य सः विमुखः । सौधानां सुधाधवलितानां हाणां उत्सङ्गेषु उपरितनभागेषु यः प्रणयः परिचयः तस्य विमुखः पराङ्मुखः। 'प्रणयः स्यात्परिचये याज्ञ्यायां सौहृदेऽपि च' इति यादवः । मास्म भूः न भवेत्यर्थः । * सस्मे लङ् च ' इति सस्मे माङि वाचि भवतलुङ् । ' लुङ्लङलङ्यमााट्' इति लुङ् िमाङ्योगेऽडागमप्रतिषेधः । The way, though circuitous, is highly approved in the world when it brings an unprecedented advantage. Even though the way would be circuitous for you, started in the northern direction, it is possible, indeed, to go by the way passing through a forest having sugar-capelike grassfields (or forests of Kasha grass ) in the beginning and Arjuna trees at the end. Have not, therefore, your face turned away from intimate familiarity with the uppermost parts of the mansions of Ujjayini जैत्रैर्वाणैः कुसुमधनुषो दूरपातैरमोथैः __ मर्माविद्भिदृढपरिचितभ्रूधनुर्यष्टिमुक्तैः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy