SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः] ११९ If you would not be pleased with the eyes of the city-damsels with their outer corners tremulous ( unsteady ), dazzled by the flashes of lightnings, the victorious unfailing arrows of the god of love having a very wide range, piercing the vitals of bodies, discharged by means of bows in the form of their intimately familiar eye-brows, then I would deem that you are deprived of your eyes (i. e. that you have no eye for appreciating the beauty of the outer corners of the eyes of the beautiful ladies of the city and so are incapable of taking delight in their eyes.) स्रोतः पश्यन् व्रज पथि लुठन्मीनलोलायताक्ष्याः निर्विन्ध्यायाः किमपि किमपि व्यञ्जिताकूतवृत्तिः । वीचिक्षोभस्तनितविहगश्रेणिकाचीगुणायाः संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभः ॥ १०५ ॥ अन्वयः----पथि लुठन्मीनलोलायताक्ष्याः वीचिक्षोभस्तनितविहगश्रेणि काञ्चीगुणायाः दर्शितावर्तनाभेः स्खलितसुभगं संसर्पन्त्याः निर्विन्ध्याया किमपि किमपि व्यञ्जिताकूतवृत्तिः स्रोतः पश्यन् अज । स्रोतः इत्यादि । पथि उज्जयिनीमार्गे । लुठन्मीनलोलायताक्ष्याः। लुठन्तः उद्वर्तमानाः मीनाः मत्स्याः लुठन्मीनाः । ते एव लोले चञ्चले आयते दीर्घ अक्षिणी यस्याः सा लुठन्मीनलोलायताक्षी । तस्याः । 'स्वाङ्गान्नीचोऽस्फोङः' इत्यत्रानुवृत्तेन वेत्यनेन व्यवस्थितविभाषया स्फोङोऽपि स्वाङ्गान्नीचः ङी वैकल्पिकः प्राप्तोऽत्र । वीचिक्षोभस्तनितविहगश्रेणिकाचीगुणायाः।वीचीनां क्षोभेण स्तनिताःकृतस्वनाः विहगाः हंसादिपक्षिणः वीचिक्षोभस्तनितविहगाः। तेषां श्रेणिः पङ्क्तिः । सैव काञ्चीगुणः यस्याः सा । तस्याः । काञ्चीगुणः रसना । 'स्त्रीकट्यां मेखला काञ्ची सप्तकी रसना तथा' इत्यमरः । दर्शितावर्तनाभः । दर्शितः आविष्कृतः आवर्तः अम्भसा भ्रमः एव नाभिः यया सा । तस्याः। स्खलितसुभगं । स्खलितेन स्खलितगत्या सुभगं मनोहरं यथा स्यात्तथा । संसर्पन्त्याः गच्छन्त्याः निर्विन्ध्यायाः तदभिधनद्याः । विन्ध्यान्निगता निर्विन्ध्या । तस्याः। 'प्रात्यवपरिनिःप्रत्यादयः गतक्लान्तकृष्टग्लानक्रान्तस्थितादिषु वेव्भाप्केब्भिः' इति प्रादिः सः । किमपि किमपि अव्यक्तवर्ण व्यञ्जिताकूतवृत्तिः प्रकटीकृतस्वाभिप्रायः । व्यञ्जिता आविष्कृता आकूतस्य अभिप्रायस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy