SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ ११२ [ पार्श्वाभ्युदये ters with the brightly burning torches in the form of the flashes of lightning, should, throughout the whole of that night, resort to that mountain, the bordering regions of the table-lands of which would be pregnant with the sweet smell of the perfumes used at the time of copulation by the women of Siddha gods, having the hair in the form of Kadamba trees with flowers full-blown, of its body erect on account of its contact with you. सोऽसावद्रिर्भवतु नितरां प्रीतये ते समग्रग्रावोपायैग्रहगणमिवोपगृहीतुं खमुद्यन् । भोगोद्रेकं कथयति लतावेश्मकैः सोपहारैः यः पण्य स्त्रीरतिपरिमलोद्गारिभिर्नागराणाम् ।। ९९ ॥ अन्वयः यः पण्यस्त्रीरतिपरिमलोद्वारिभिः सोपहारैः लतावेश्मकैः नागराणां भोगोद्रेकं कथयति सः समग्रग्रावोपायैः ग्रहगणं उपगृहीतुं इव खं उद्यन् असौ अद्रिः ते नितरां प्रीतये भवतु । - स इत्यादि । यः नीचैराख्यः गिरिः पण्यस्त्रीरतिपरिमलोद्गारिभिः । पण्यस्त्रीणां रूपाजीवानां गणिकानां रतौ रतिक्रीडायां यः परिमलः रतपरिमर्दसमुच्छलन्माव्याङ्गरागादिसौरभं तमुद्गिरन्ति आविर्भावयन्तीति तथोक्तानि तानि । तैः । पण्याः धनप्रदानेन क्रेयाः स्त्रियः पण्यस्त्रियः । 'गणिका लज्जिता वेश्या रूपाजीवा विलासिनी । पण्यस्त्री दारिका दासी' इति धनञ्जयः । सोपहारैः उपहृतपुष्पादिसङ्कुलैः । 'वा नीचः ' इति सहस्य सादेशः । उपह्रियते सभाजनार्थं दीयते इत्युपहारः । लतावेश्मकैः लताविनिर्मितवेश्माकारमण्डपैः पैः। लताकुञ्जरित्यर्थः । नागराणां नगरे भवानां । नगरनिवासिनामित्यर्थः । ' तत्र भवः' इत्यण् । भोगोद्रेकं भोगातिरेकं । कथयति निवेदयति । आविष्करोतीत्यर्थः । सः नीचैरभिधानः गिरिः । समग्रप्रावोपायैः । समग्राणां ग्राव्णां उपलानां उपाग्रैः अग्रभागैः । स्वशिखराग्रभाग्दग्रभागैरित्यर्थः । ग्रहगणं उडुगणं । ग्रहाणां समूहृमित्यर्थः । उपगृहीतुं कवलयितुं बन्दिग्राहं गृहीतुं वा । इव । उत्प्रेक्षायामत्रेवशब्दः प्रयुक्तः । खं आकाशप्रदेशं उद्यन् उद्गच्छन् असौ सः । पूर्वमुपवर्णितोऽयं वा अद्रिः शैलः ते तव नितरां अत्यर्थ प्रीतये आनन्दाय भवतु भविष्यति । तत्प्राव्युत्तरक्षणे एव सोऽद्रिः प्रीतये भविष्यतीति भावः । ' लिङ् चौर्ध्वमौहूर्तिके ' इत्योर्ध्वमौ - हूर्तिकेऽथें लोट् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy