________________
प्रथमः सर्गः ]
सिद्धस्त्रीणां रतिपरिमलैर्वासिताधित्यकान्तं त्वत्सम्पर्कात्पुलकितमिव प्रौढपुष्पैः कदम्बैः ॥ ९८ ॥
अन्वयः- सिद्धस्त्रीणां रतिपरिमलैः वासिताधित्यकान्तं प्रौढपुष्पैः कदम्बैः त्वत्सम्पर्कात् पुलकितं इव अमुं शिखरिणं विद्युद्दामस्फुरितरुचिमद्दीपिकाद्योतिताशः मुक्तशङ्कः त्वं तां निशां सेवेथाः ।
6
1
6
,
त्वमित्यादि । सिद्धस्त्रीणां देवविशेष योषितां । सिद्धाः देवविशेषाः तेषां स्त्रियः सिद्धस्त्रियः । तासाम्। रतिपरिमलैः रतिक्रीडासञ्जातसुरभिमाल्यगन्धादिपरिमर्दनोत्थहृद्यगन्धैरतिदूव्यापिभिः । रतेः परिमलाः विमर्दोत्थाः जनमनोहराः गन्धाः । तैः । 'विमर्दोत्थे परिमलो गन्धे जनमनोहरे' इत्यमरः । ' भवेत्परिमलश्चित्तहारिगन्धविमर्दयोः । रतामर्दसमुन्मीलदङ्गरागादिसौरभे ' इति विश्वलोचने । वासिताधित्यकान्तं सुरभितपर्वतोपरितनभागप्रान्तप्रदेशं । वासितः सुरभितः अधित्यकायाः पर्वतोपरितनभूमेः अन्तः प्रान्तप्रदेशः यस्य तम् । ' उपत्यकाधित्य के ' इत्यधिरूढार्थेऽधेस्त्यः स्त्रियामित्वाभावश्च । पर्वतमध्यारूढो देशः अधित्यकेत्यर्थः । ' उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका ' इत्यमरः स्वरूपेऽन्तं मतं क्लीत्रं न स्त्री प्रान्तेऽन्तिके त्रिषु' इति ' वासितं विहगारवे । ज्ञाने त्रिष्वेव वसनवेष्टिते सुरभीकृते ' इति च विश्वलोचने । प्रौढपुष्पैः प्रवृद्धपुष्पैः । ' प्रवृद्धं प्रौढमीरितम्' इत्यमरः । ' प्रादूहोढोढ्येषैध्ये ' इति प्रादूढे परतः ऐप् । कदम्बैः नीपवृक्षैः । नीप- प्रियक कदम्बास्तु हरिप्रियः इत्यमरः । परः कदम्बः प्रावृषेण्यः कादम्बर्यो हलिप्रियः । नीपो धूलिकदम्बोऽन्यः सुवासो वृत्तपुष्पकः ' इत्यपि कश्चिदाह । ' कदम्बं निकुरुम्बे स्यान्नीपसिद्धार्थयोः पुमान्' इति विश्वलोचने | त्वत्सम्पर्कात् भवत्सम्बन्धात् । पुलकितं इव रोमाञ्चितमिव । पुलकः रोमाञ्चः सञ्जातः अस्य पुलकितः । तम् ।' तदस्य सञ्जातं तारकादिभ्यः इतः ' इति इतः । अमुं तं शिखरिणं पर्वतं । शिखराणि सन्त्यस्येति शिखरी । मत्वर्थीयः इनिः । विद्युद्दामस्फुरितरुचिमद्दीपि का द्योतिताशः । माल्य तुल्यचञ्चलास्फूर्जथुकान्तिमद्दीपिका प्रकाशितदिमण्डलः । दामेव विद्युत् विद्युद्दाम । तस्याः स्फुरितानि स्फूर्जथवः एव रुचिमत्यः कान्तिमत्यः प्रभास्वराः दीपिकाः । ताभिः द्योतिताः प्रकाशिताः आशाः दिशः येन सः । मुक्तशङ्कः परिहृतसंशयः परित्यक्तभयः वा । शङ्का त्रासे वितर्के च' इति विश्वलोचने । त्वं भवान् । तां निशां तां रात्रिं । 'कालध्वनोरविच्छेदे ' इति इप् । सेवेथाः भजस्व । तत्र निवासं कुर्वित्यर्थः ।
C
6
6
You, with your doubt (or fear ) dispelled, enlightening the quar
१.११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org