________________
[ पार्श्वाभ्युदये
दृष्ट्वा दृश्यं विलसितमदो नागराणां दिनान्ते नचैिराख्यं गिरिमधिवसेस्तत्र विश्रान्तिहेतोः ॥ ९७ ॥ अन्वयः- - त्वं तस्यां अमलं सलिलं जीविकांकृत्य किञ्चित् पीत्वा कचित् अनुमते हर्म्यपृष्ठे निषण्णः अहः नीत्वा नागराणां अदः दृश्यं विलसितं दृष्ट्वा दिनान्ते विश्रान्तिहेतोः नीचैराख्यं गिरिं अधिवसेः ।
११०
,
पत्वित्यादि । त्वं भवान् तस्यां वेत्रवतीनद्यां अमलं निर्मलं सलिलं जलं जीविकांकृत्य जीविकां जीवनसाधनमिव कृत्वा । 'जीविकोपनिषदिवे ' इतीवार्थे कृञि तिसञ्ज्ञा । तिसञ्ज्ञत्वाच्चास्य 'प्यस्तिवाक्से क्त्व' इति क्त्वात्यस्य यः । किञ्चित् स्वल्पं पीत्वा आपीय । अत्र स्वल्पसलिलपानोपदेशः विपुलसलिलपानजनितजाइन मेघशीघ्रगतिप्रतिबन्धः मा भूदिति कृत इति ज्ञेयम् । क्वचित् कस्मिंश्चित् अनुमते भवत्सम्मते हर्म्यपृष्ठे धनिनिवास पृष्ठभागे । हर्म्यस्य धनिनिवासस्य पृष्ठे पृष्ठभागे निवासोपरितनप्रदेशे । ' हर्म्यादि धनिनां वासः इत्यमरः । निषण्णः उपविष्टः अहः दिनं नीत्वा यापयित्वा नागराणां नगरे भवानां । नगरवासिनामित्यर्थः । अदः तत् दृश्यं दर्शना । ' तृज्व्याश्चार्थे ' इत्यर्द्धार्थे व्यः । विलसितं विलासं । विभ्रममित्यर्थः । दृष्ट्वा अवलोक्य दिनान्ते दिवसावसानकाले । सायाह्ने इत्यर्थः । विश्रान्तिहेतोः श्रमापनयनार्थम् । योगिराजेन स्वोपज्ञटीकयां विश्रामहेतोरिति पाठः सङ्गृहीतः । विश्रान्तेः हेतोः विश्रान्तिहेतोः । ' हेतौ सर्वाः प्रायः' इति हेतौ ता । विश्रामेतिपाठस्यापाणिनीयत्वेऽपि 'विश्रमो वा' इति विपूर्वस्य श्रर्घञि विहितस्यै प्रतिषेधस्य “वैकल्पिकत्वात्तस्य समीचीनत्वमवसेयं, चान्द्रादिभिरपि तस्य समर्थितत्वात् । नीचैराख्यं नीचैरभिधानं । नीचैरिति आख्या यस्य सः नीचैराख्यः । तं । गिरिं भूधरं अधिवसेः 'निवासं कुरु । ' वसोऽनूपाध्याङ : ' इति कर्मत्वविधानादाधारस्य ' कर्मणीप् ' इति इप् ।
Drinking the pure water a little therein (in that river) making it as if a means of subsistence, spending a day on the uppermost part of a certain mansion of your liking, perceiving the sports of the citizens worthy of being enjoyed sight of, you, at the end of the day, should make a halt on the mountain known as Nichaih in order to take rest.
त्वं सेवेथाः शिखरिणमनुं तां निशां मुक्तशको विद्युद्दामस्फुरितरुचि मद्दीपिकाद्योतिताशः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org