________________
प्रथमः सर्गः]
अन्वय : - (भो) रसिक ! सुरसं लीलास्फुरितशफराघटनैः आत्तपङ्क, विहगकलभैः रोधःप्रान्ते बद्धडिण्डीरपिण्डं वेत्रवत्याः सभ्रूभङ्ग मुखं इव चलोमि पयः तस्यां प्राणयात्रानिमित्तं ते पातव्यम् ।
पातव्यमित्यादि । भो रसिक सरस ! रसः आनन्दः विषयाभिलाषः शब्दः स्तनितरूपः वा अस्य अस्तीति रसिकः । किः । ' अतः इनिठनौ' इति मत्वर्थे ठन् । तेन सानन्दः विषयाभिलाषवान् सस्तनितः वेत्यर्थः । सुरसं। शोभनः रसः आस्वादः रुचिः यस्य तत् । मधुरमित्यर्थः । लीलास्फुरितशफराघट्टनैः । लीलायै क्रीडां कर्तु स्फुरिताः सञ्जातचाञ्चल्याः लीलास्फुरिताः। ते च ते शफराः मत्स्याश्च । ' शफरोऽनिमिपस्तिमिः' इति धनञ्जयः। तेषां आघट्टनैः सङ्घः आत्तपङ्क जम्बालाविलम् । आत्तः गृहीतः पङ्कः जम्बालः वेन तत् । आविलत्वनिमित्तभूतवेगवःप्रवाहाभावेऽपि तजलमलिनत्वं भ्राम्यच्छफनिकरसङ्घर्ष निबन्धनमिति भावः । विहगकलभैः पक्षिशावैः रोधःप्रान्ते तीरसमीपप्रदेशे । 'कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु' इत्यमरः। बद्धडिण्डीरपिण्डं। बद्धाः विरचिताः डिण्डीराणां फेनानां पिण्डाः ग्रासाकारविरचनाः यत्र तत् । कूलङ्कषवाः । प्रवाहाभावाड्डिण्डीरपिण्डविरचनासम्भवात् तत्र नदीतीरे शुभ्रपतत्रिशावक्रीडाकृतजलक्षोभसञ्जनितडिण्डीरपिण्डानां सरिद्रोधःप्रदेशप्रक्रीडपाण्डुवर्णपतत्रिशावानां पिण्डाकाराणां वा दर्शनात् तत्र डिण्डीरपिण्डसद्भावकल्पनमौचित्यमावहतीत्यध्यवसेयम् । वेत्रवत्याः तन्नामसरितः सभ्रूभङ्ग भ्रुकुटिभङ्गविरचनासहितं मुखं इव प्रेयस्याननमिव चलोमि चलत्कल्लोलमालं। चलाः चञ्चलाः ऊर्मयः वीचयः यत्र तत्। पयः पानीयं तस्यां वेत्रवती. नद्यां प्राणयानानिमित्तं प्राणानां रक्षणार्थम् । जलमन्तरेण जलदस्य प्राणयात्रायाः असम्भवात् प्राणयात्रानिमित्तमित्युक्तम् । ते तव । त्वयेत्यर्थः । कर्तरीयं ता । पातव्यं तत्पानं कर्तव्यम् । 'व्यस्य वा कर्तरि ' इति ता कर्तरि ।
Ob impassioned one! for the sake of your maintenance, you should drink the water there (in that river ), possessing mobile ripples, of the Vetravati which would be resembling her face with the eyebrows kuit, very tasteful, turbid owing to its being ruffled by the fish moving sportively, abounding in lumps of foam formed on the banks by the chickens of birds.
पीत्वा तस्यां सलिलममलं जीविकांकृत्य किञ्चित नीत्वाऽहस्त्वं क्वचिदनुमते हर्म्यपृष्ठे निषण्णः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org