________________
१०८
[ पार्श्वाभ्युदये
वाताकीर्णैः कुवलयदलैः वासितं स्वादु दीर्घिकाम्भः तीरोपान्तस्तनितसुभगं पास्यसि तत्रयातस्य ते विपुला विश्रान्तिः ( इति ) मन्ये ।
"
6
विश्रान्तिरित्यादि । हे सुभग सौभाग्यभूषित। शोभनं भगं यशः महात्म्यं वा यस्य सः । किः । भगं तु ज्ञानयोनीच्छायशोमाहात्म्यमुक्तिषु । ऐश्वर्यवीर्यवैराग्यधर्मश्रीरत्नभानुषु ' इति विश्वलोचने । यत्र यस्यां विशालानगर्याम् । कलाराङ्कं सौगन्धिकचिह्नं । ' सौगन्धिकं तु कहारं हलकं रक्तसन्ध्यकम्' इत्यमरः । शुक्लवर्णमेतत्सुरभि सञ्जातसौरमं शिशिरं शीतलं स्वच्छं सुतरां निर्मलं । प्रसन्नमित्यर्थः । ' अच्छः स्वच्छेऽन्यलिङ्गः स्यात्' इति विश्वलोचने । उत्फुलपद्मं विकसितपद्मालङ्कृतं । उत्फुल्लानि विकसितानि पद्मानि यस्मिंस्तत् । त्रिफला विशरणे' इत्यस्माद्धोः 'ति' इति तकारादौ परतोऽतः उत्वं ततकारस्य च ' समुदः ' इति लो निपातितः । वाताकीर्णैः प्रभञ्जनेने तस्ततो विकीर्णैः । वातेन आकीर्णानि वाताकीर्णानि । तैः । कुवलयदलैः कमलच्छदैः । कुवलयानां कमलाना दलानि छदाः । तैः । 'दलं पर्णे छदः पुमान्' इत्यमरः । वासितं सुरभितं स्वादु मधुरं दीर्घिकाम्भः क्रीडासरः सलिलं । ' वापी तुदीर्घिका ' इत्यमरः । दीधैव दीर्घिका । खौ कन् । ' वार्वारि कं पयोऽम्भोऽम्बु' इति धनञ्जयः । तीरोपान्तस्तनितसुभगं । तीरस्य तटस्य उपान्तः समीपप्रदेशः तीरोपान्तः । तत्र स्तनितं अल्पगर्जित । तेन सुभगं मनोहरं यथा स्यात् तथा । 'ऊर्ध्वमुञ्चलितकण्ठनासिकं दृङ्कृतं स्तनितमल्पघोषवत्' इति मल्लिनाथोद्धतलक्षणात् स्तनितमित्यस्याल्पगर्जितमित्यर्थः । पास्यसि पानं करिष्यसि । पिबतेर्लट् । तत्र तस्यामलकानगर्याम् । यातस्य गतवतः ते भवतः विश्रान्तिः विश्रमः विपुला महती । स्यादिति शेषः । इति एवं मन्ये जानामि ।
c
Oh fortunate one! you, I think, would be enjoying full rest on reaching there where you would be drinking in a manner charming owing to the thunderings near the banks, water, which is sweet, fragrant, tasteful, cool and perfumed by the petals of the blue water-lilies scattered over by the wind, of the oblong lakes, possessing white lotuses and having blown lotuses,
पातव्यं ते रसिक सुरसं प्राणयात्रानिमित्तं
तस्यां लीलास्फुरितशफरा घट्टनैरात्तपङ्कम् । रोधः प्रान्ते विहगकल भैर्बद्ध डिण्डीरपिण्डं भ्रूभङ्गं मुखमिव पयो वेत्रवत्याञ्चलोमिं ॥ ९६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org