________________
प्रथमः सर्गः]
१०७
अल्पकालं यावत् । 'कालाध्वनोरविच्छेदे ' इति इप् । तूष्णीं मौनमाश्रित्य सुखेन वा निषण्णः विश्रमार्थमुपविष्टः जालोद्गीण: गवाक्षनिष्ठयूतैः । जालात् गवाक्षात् जालेन वा उद्गीणैः विनिःसृतैः । उद्गीर्णशब्दप्रयोगोऽत्र काव्ये ग्राम्यः इति चेत्, न, गोण्या वृत्त्या तस्य व्यपाश्रयात् मुख्यवृत्त्या तव्यपाश्रयस्य ग्राम्यत्वाय कल्पनात् । तदुक्तं दण्डिना 'निष्ठ्यूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयं । अतिसुन्दरमन्यत्र ग्राम्यकक्षां विगाहते ।' इति । मनोहः मनोहरैः धूपधूमैः कृपीटयोनिप्रक्षिप्तवासयोगजनितधूमैः । सुरभिततनुः सनितसौगन्ध्यशरीरः । सुरभिता सुरभि सुगन्धि कृता । 'मृदो ध्वर्थे णिज्बहुलं' इति करोत्यर्थे मृदः णिच् । यद्वा सुरभिः सुगन्धः सञ्जातः अस्याः सुरभिता । 'तदस्य सञ्जातं तारकादिभ्यः इतच' इति इतच् । वारस्त्रीणां वाराङ्गनानां । वेषाजीवानां वेश्यानां । वारस्य लोकनिकायस्य स्त्री वारस्त्री। यद्वा 'वारे राजदेवादिसेवाक्रमे स्त्री वारस्त्री ' इति क्षीरस्वामी। 'वारस्त्री गणिका वेश्या रूपाजीवा' इत्यमरः। निधुवनरति सुरतक्रीडां सुरतसुखं वा । निधुवने मैथुने सुरते रतिः आसक्तिः सुखं वा निधुवनरतिः। तां । रतिरित्यस्य क्रीडेत्यभिधेयम् । 'मैथुनं निधुवनं रतं' इत्यमरः। प्रेक्षमाणः अवलोकयन् । कामुकत्वस्य विलासित्वस्य रतिलाम्पट्यस्य वा । 'विलासी कामुकः कामी स्त्रीपरो रतिलम्पटः ' इति शब्दार्णवे । 'लष्पत्पद्र्थाभूवृष्शकम्गमघ्नः उकञ्' इत्युकञ् । । कामयते इति कामुकः । कामुकस्य भावः कामुकत्वम् । महत्. अपि गुर्वपि फलं धूपधूमवासितत्वादिकं सद्यः झटिति लब्धा लप्स्यसे । प्राप्स्यसीत्यर्थः ।
Oh, afflicted with a strong desire ! on reaching this ( capital ), you, sitting silently for a moment on the uppermost part of a mansion (or of the palace ), having your body perfumed by delightful smokes of incence (rising up in volumes ) through lattices, inspecting the strong desires cherished by the harlots for cohabitation, would immediately reap the fruits, though very rich, of lustfulness.
विश्रान्तिस्ते सुभग विपुला तत्र यातस्य मन्ये
कलाराएं सुरभि शिशिरं स्वच्छ मुकुल्लपद्मम् । वाताकीर्णैः कुवलयदलैर्वासितं दीपिकाम्भः
तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यत्र ॥ ९५ ॥ अन्वय :- (हे) सुभग ! यत्र कहारात सुरभि शिशिरं स्वच्छं उत्फुलपऱ्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org