SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः ] ११३ That mountain, manifesting the excess of the sexual enjoyment of the citizens through the bowers possessing presents of flowers and emitting sweet smell of the perfumes used at the time of sexual enjoyment by the courtezans, rising high up in the sky to seize (or eclipse) as if from below the collection of planets with the ends of all the rocks, would be bringing you pleasure entirely the very moment you reach there (or the mountain ). प्रेमामुष्मिस्तव समुचितं विद्धि शैले शिलायैः व्योमोत्सङ्ग परिमृजति वा पुष्पशय्याचितान्तैः । स्रस्तस्रग्भिर्निधुवनविधौ क्रीडतां दम्पतीनां उद्दामानि प्रथयति शिलावेश्मभियौवनानि ॥ १०० ॥ अन्वयः - शिलाः व्योमोत्सङ्गं परिमृजति, कीडतां दम्पतीनां निधुवनविधौ स्रस्तस्रग्भिः पुष्पशय्याचितान्तैः शिलावेश्मभिः उद्दामानि यौवनानि प्रथयति वा अमुष्मिन् शैले तव समुचितं प्रेम विद्धि । प्रेमेत्यादि । शिलाः शिखराग्रभागभाग्ग्रावाग्रभागैः । शिलानां ग्राव्णो अग्राणि अग्रभागाः शिलाग्राणि । तैः । व्योमोत्सङ्गं आकाशतलं । व्योम्नः आकाशस्य उत्सङ्गः तलप्रदेशः व्योमोत्सङ्गः । तम् । परिमृजति स्पृशति । परिमृजति इति परिमृजन् । तस्मिन् । 'सलय:' इति शतृत्यः । क्रीडतां क्रीडानिमन्नानां । क्रीडन्तीति क्रीडन्तः । तेषाम् । पूर्ववच्छतृत्यः । दम्पतीनां जायापत्योर्युगलानां । जाया च पतिश्च दम्पती । ' राजदन्तादो' इति जायाशब्दस्य दम्भावो निपातितः । ' दम्पती जम्पती जायापती ' इत्यमरः । निधुवनविधौ मैथुनोपसेवनविधौ । ' निधुवनं सुरते कम्पनेऽपि च' इति विश्वलोचने । 'विधिविधाने दैवे च' इत्यमरः । स्स्रस्तस्रग्भिः । त्रस्ताः विगलिताः स्रजः मूर्धमालाः येषु तानि स्रस्तस्रज्ञ्जि । तैः । ' स्रस्तं ध्वस्तं भ्रष्टं स्कन्नं पन्नं च्युतं गलितं ' इत्यमर: । ' माल्यं माला - स्रजौ मूर्ध्नि' इत्यमरः । सृज्यते इति स्रक् । 'ऋत्विद्गधृक्स्रद्विगुष्णिगञ्चुयुजिक्रुञ्चः ' इति क्व्यन्तो निपातः । ' कित्यस्य कुः ' इति क्वित्यान्तस्य धोः कुः । पुष्पशय्याचितान्तैः पुष्पविरचितशयनीय व्याप्तमध्यदेशैः । पुष्पाणां शय्याः पुष्पशय्याः । ताभिः आचितः व्याप्तः छन्नः वा अन्तः मध्यदेशः येषां तानि । तैः । आचितस्तु चिते छन्ने सङ्ग्रहीते त्रिलिङ्गकः ' इति विश्वलोचने । शिलावे मभिः पर्वतपाषाणनिखातगृह । कारनिवेशैः अकृतकगिरिगह्वरैः वा । उद्दामानि पार्श्वभ्युदये...८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy