SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ १०४ [ पार्श्वाभ्युदये क्विप् । 'नीडं स्थाने कुलायेऽस्त्री समीपे तु सपूर्वकः' इति विश्वलोचने । विविध बिहगैः नानाविधैः विहायोगतिभिः पक्षिभिः । ' गमे खच्खड्डाः 2 इति डः । आकुलाः सङ्कीर्णाः । व्याताः इति यावत् । सम्पद्येरन् सम्पत्स्यन्ते । भविष्यन्तीत्यर्थः । Moreover, on your arrival the regions of their gardens possessing on their borders Jambu groves dark with ripe fruits, endowed with beauty on account of the excellent trees rubbing against the surface of the sky with the ends of their tall branches, rich in fruits, would be overcrowded with various birds engaged in building up their nests. अन्वयः इति विसलद्विद्युदुद्दामहासे मुक्तासारप्रकटितखे उन्मदानां केकिनां नृत्यारम्भं मुहुः घटयति भवति अभ्यर्णे ( सति ) उद्भुतपङ्काः दशार्णाः नूनं कतिपयदिनस्थाहिंसाः सम्पत्स्यन्ते । इत्यभ्यर्णे भवति विलसद्विद्यदुद्दा महासे मुक्तासारप्रकटितरवे के किनामुन्मदानाम् । नृत्यारम्भं घटयति मुहुर्नूनमुद्धतपङ्काः सम्पत्स्यन्ते कतिपयदिनस्थाहिंसा दशार्णाः ॥ ९२ ॥ , इत्यभ्यर्णे इत्यादि । इति एवंप्रकारेण । विलसद्विद्युदुद्दा महासे । विलसन्ती प्रादुर्भावितचाकचक्या चासौ विद्युत् सौदामनी च विलसद्विद्युत् । सेव उद्दामः विकटः हास: हास्यं प्रकाशः वा यस्य सः । तस्मिन् । हसनं हासः । 'स्वयो वा इति वैकल्पिकेऽचि पक्षे ' भावे ' इति घञ् । मुक्तासारप्रकटितरवे । मुक्तः व्युत्सुष्टश्चासौ आसारः वेगवती वृष्टिश्च मुक्तासारः । तत्र प्रकटितः प्रादुर्भावितः रवः गर्जिध्वनिः येन सः । प्रकटयति स्म प्रकटितः । ' मृदो ध्वर्थे णिज्बहुलं ' इति णिजन्तात्क्तः । 6 - आसारस्तु प्रसरणे धारावृष्टौ सुहृद्वले ' इति विश्वलोचने । उन्मदानां आविर्भूतामन्दानन्दानां । उद्गतः आविर्भूतः मदः अमन्दानन्दः येषां ते । तेषां । केकिनां मयूराणां । मेघनादानुला सिनामित्यर्थः । नृत्यारम्भं नर्तनोद्यमं । ' आरम्भः उद्यमे दर्पे त्वरायां च वधेऽपि च' इति विश्वलोचने । ' स्यादभ्यादानमुद्धात आरम्भः ' इत्यमरः । मुहुः असकृत् । घटयति जनयति ! घटयति जनयतीति घटयन् । तस्मिन् । 'सलट: ' इति सम्प्रति काले शतृत्यः । भवति त्वयि । अभ्यर्णे सति अन्तिके समीपप्रदेशे सति । उपकण्ठाऽन्तिकाभ्यर्णाऽभ्यग्रा अप्यभितोऽव्ययं ' इत्यमरः । ' यद्भावाद्भावगतिः , ' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy