________________
प्रथमः सर्गः]
१०५
इति ईप् । उद्भूतपङ्काः प्रादुर्भूतकर्दमाः । कर्दमिताः इत्यर्थः । दशार्णाः तदाख्यः जनपदः । नूनं निश्चयेन । 'नूनं स्यादर्थनिश्चये' इति विश्वलोचने । कतिपयदि. नस्थायिहंसाः । का सङ्ख्या मानमेषां कति । 'किमश्च स्येडतिश्च' इति डतिर्माने वर्तमानाकिमः । ततः अयच्पुगागमश्च । कतिपयेषु एव दिनेषु स्थायिनः कतिपयदिनस्थायिनः । कतिपयदिनस्थायिनः हंसाः येषु ले कतिपयदिनस्थायिहंसाः सम्पत्स्यन्ते भविष्यन्ति । कतिपयशब्दः स्तोकार्थः । अत्र ननु से 'दिनकतिपयं' इति कतिपयशब्देनोत्तरपदेन भाव्यं, न पूर्वपदेन 'पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहबष्कयणीप्रवक्तृश्रोत्रियाध्यापकधूर्तेर्जातिः' इत्यारम्भस्य विशेषणपरनिपातार्थत्वादिति चेत्, न, अस्य शास्त्रस्य प्रायिकत्वाद्विशेषणस्य पूर्वनिपातस्याऽपि सम्भवात् जातेश्व परनिपातस्य । एवमेवाह मल्लिनाथोऽपि मेघदूतकाव्यटीकायाम् ।
Thus the Dasharna country, made muddy on the arrival of you, possessing excessive brilliance due to the lightning emitting flashes, sending forth roars while pouring showers of rain, setting the peacocks that would be highly pleased to dance again and again, verily would have the swans staying ( there ) for a few days.
गत्वा पश्येः पवनविचलत्केतुहस्तैरभीक्ष्णं
दूरादुच्चैर्भवनशिखरैराह्वयन्तीमिव त्वाम् । सालोदग्रां श्रियमिव भुवो रूपिणी नाभिभूतां
तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीम् ॥ ९३ ॥ अन्वयः- पवनविचलत्केतुहस्तैः भवनशिखरैः त्वां दरात् अभीक्ष्णं उच्चैः आह्वयन्ती इव, भुवः रूपिणी इव सालोदनां श्रियं, नाभिभूतां, दिक्षु प्रथितविदिशालक्षणां तेषां ( दशार्णानां ) राजधानी गत्वा पश्यः ।
गत्वेत्यादि । पवनविचलत्केतुहस्तेः समीरणसञ्चरत्केतुकौः। केतवः ध्वजाः एव हस्ताः कराः केतुहस्ताः । पवनेन समीरणेन विचलन्तः सञ्चरन्तः पवनविचलन्तः । पवनविचलन्तः केतुहस्ताः येषां ते । तैः । भवनशिखरैः सौधवलाभिभिः भवनानां सोधानां प्रासादानां शिखराणि वलभयः शृङ्गाणि उन्नततरप्रदेशाः वा । तैः । त्वां भवन्तं दुरात् दूरदेशात् अभीक्ष्णं सततं उच्चैः अत्यर्थ आहयन्ती इव आकारयन्तीमिव भुवः पृथिव्याः रूपिणी इव । प्रशस्तं रूपं आकृतिरस्याः अस्तीति रूपिणी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org