SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः ] १०३ नवारम्भाः । अतः 'नवपरिकराः ' इत्यस्य 'नवारम्भाः' इत्येष एवार्थः समीचीनः । सञ्जायेरन् सम्भविष्यन्ति । The border lands of that country, endowed with a charm attracting the eyes, having corns cropped up, cuckoos silenced, having trees occupying high positions in their villages overcome with the efforts of birds, eating domestic oblations (i. e. crows, sparrows etc. ), for building their nests, would have their surroundings changed into new ones when you, on your approach in the vicinity, would have discharged drops of water. भयस्तेषामुपवनभुवस्तुङ्गशाखाग्रघष्ट. व्योमोत्सङ्गनिजतरुवरैरात्तशोभाः फलाढ्याः। सम्पधेरन्विविधविहगैराकुला नीडकृद्भिः त्वय्यासन्ने परिणतफलश्यामजम्बूवनान्ताः ॥ ९१ ।। अन्वयः-भूयः त्वयि आसन्ने परिणतफलश्यामजम्बूवनान्ताः, तुङ्गशाखाग्रघृष्टव्योमोत्सङ्गः निजतरुवरैः आत्तशोभाः, फलाढ्याः तेषां उपवनभुवः नीडकृद्भिः विविधविहगैः आकुलाः सम्पद्येरन् । भूय इत्यादि । भूयः पुनः त्वयि भवति आसन्ने समीपं प्राप्ते सति । 'यद्भावाद्भावगतिः' इति ईप् । परिणतफलश्यामजम्बूवनान्ताः। परिणतानि पक्कानि च तानि फलानि च परिणतफलानि । तैः श्यामानि कृष्णवर्णानि हरिद्वर्णानि च तानि जम्बूवनानि च । तै अन्ताः रम्याः । यद्वा परिणतफलैः श्यामानि जम्बूवनानि यत्र ते परिणतफलश्यामजम्बूवनाः। परिणतफलश्यामजम्बूवनाः अन्ताः प्रान्ताः प्रत्यासन्न प्रदेशाः यासां ताः । अन्तो नाशे मनोहरे । स्वरूपेऽन्तं मतं क्लीबं न स्त्री प्रान्तेऽन्तिके त्रिषु' इति विश्वलोचने । तुङ्गशाखाग्रघृष्टव्योमेत्सङ्गः उन्नततरविट पाग्रसघृष्टाकाशपृष्ठप्रदेशैः । तुङ्गः समुत्तुङ्ग समुन्नतैः शाखानां विटपानामग्रैः अन्त्यावयवैः धृष्टः सम्मृष्टः व्योम्नः आकाशस्य उत्सङ्गः तलं पृष्ठप्रदेशः यैः ते । तैः । निजतरुवरैः उद्यानोद्भवैः तरुवरैः वृक्षश्रेष्ठैः । स्वकीयैः महद्भिस्तरुभिरित्यर्थः : आत्तशोभाः प्राप्तसौन्दर्याः । आत्ता उररीकृता शोभा याभिस्ताः आत्तशोभाः । फलाढ्याः फलेग्रहितरुसमृद्धाः, विपुलफलाः वा । तेषां दशार्णानां उपवनमुवः उद्यानभूमयः नीडकृद्भिः कुलायकृद्भिः। नीडं कुलायं करोति विरचयतीति नीडकृत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy