________________
१०२
[पार्धाभ्युदये अन्वयः- उपासन्नवृत्ती त्वयि आविष्कृतजललवे तेषां सीमोद्देशाः सामिसंरूढसस्याः मूकपुंस्कोकिलाः गृहबलिभुजां नीडारम्भैः आकुलग्रामचैत्याः च नयनसुभगा: नवपरिकराः सञ्जायेरन् ।
तेषामित्यादि । उपासन्नवृत्तौ अत्यासन्नभूप्रदेश प्राप्ते । उपासन्ना प्रत्यासन्ना वृत्तिः वर्तनं यस्य सः । तस्मिन् । त्वयि भवति । आविष्कृतजललवे वृष्टसलिलकणे । जलस्य सलिलस्य लवाः कणाः जललवा: । आविष्कृताः प्रादुर्भाविताः जललवाः सलिललवाः येन सः । तस्मिन् सति । 'यद्भावाद्भावगतिः' इति ईप् । तेषां दशार्णानां सीमोद्देशाः दशार्णसीमान्तप्रदेशाः । सीम्नां मर्यादाना उद्देशाः प्रदेशाः सीमोद्देशाः । 'मर्यादायां स्त्रियां सीमाक्षेत्रे घाटे स्थितावपि' इति विश्वलांचने । सामिसंख्ढसस्याः ईषदुत्पन्नसस्याङ्कुराः । सामि ईषत् संरूढानि समुत्पन्नानि सस्यानि स्तम्बकरीणि तृणानि यत्र । 'सामि निन्दार्धयोः' इति विश्वलोचने । मूकपुस्कोकिलाः अवाग्बन्दिविहङ्गमाः। पुमांसश्च ते कोकिलाः बन्दिविहङ्गमाश्च पुस्कोकिलाः । मूकाः अवाचः पुस्कोकिलाः यत्र ते मूकपुंस्कोकिलाः । 'मूकस्त्ववाङ्मतो दीने' इति विश्वलोचने। त्वदागमे चूताङ्कुरोत्पत्तिनिमित्तवसन्तकालापगमभ्रान्त्या कोकिलाः चूताङ्कुरास्वादकधायकण्ठाः सन्तोऽपि मधुरारावं परित्यज्य मूकीभावं गमिष्यन्तीति भावः । अनेनायं चूताङ्कुरोत्पत्त्यनुकूलवसन्तर्तुसमयः इति गम्यते । गृहबलिमुजां काकादिग्रामपक्षिणां । गृहबलिं गृहकृतायाः पूजायाः उपहारं भुञ्जन्तीति गृहबालभुजः काकादयो ग्रामपक्षिणः । तेषां । 'बलिश्चामरदण्डेऽपि करपूजोपहारयोः' इति विश्वलोचने । नीडारम्भैः कुलायविरचनार्थ क्रियमाणैरुद्यमैः । नीडार्थ आरम्भाः उद्यमाः नीडारम्भाः । तैः । 'नीडं स्थाने कुलायेऽस्त्री समीपे तु सपूर्वकः ' इति 'आरम्भ उद्यमे दर्प त्वरायां च वधेऽपि च ' इति च विश्वलोचने । आकुलग्रामचैत्याः सङ्कीर्णग्रामोद्देश्यपादपाः । ग्रामेषु चैत्यानि उद्देश्यपादपाः। ग्रामेषु चैत्यानि उद्देश्यपादपाः उन्नतभूप्रदेशोत्पन्नाः पादपाः ग्रामचैत्यानि । आकुलानि ग्रामचैत्यनि यत्र आकुलग्रामचैत्याः । ' चैत्यमुद्देश्यपादपे' इति विश्वलोचने । नयनसुभगाः नेत्राकर्षिणः । नयनयोः सुभगाः मनोहाराः । स्वसौन्दर्याकृष्टजननयनाः इत्यर्थः । नवपरिकराः नवपरिवाराः नव्यारम्भाः वा। नवः नूतनः परिकरः येषां ते नवपरिकराः । यद्वा नवाः परिकराः आरम्भाः येषु ते नवपरिकराः। ' परिकरः पर्यङ्कपरिवारयोः' इत्यमरः । अत्रैव टीकायां ' समूहारम्भयोः गात्रिकाबंधे च (परिकरः)' इति क्षीरस्वामिनोक्तं । वसन्तकालेऽपि प्रावृट्कालोचितारम्भसम्भारदर्शनात् सः कालः नवारम्भः । दशार्णसीमोद्देशेषु नवारम्भसम्भारदर्शनात्तेऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org