SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः ] १०१ स्यात्' इति शब्दार्णवे । केतकैः केतकीकुसुमैः। 'पुष्पमूले बहुलम् ' इति केतकी - गुल्मावयवभूतकुसुमार्थप्रत्यायकस्य 'मयड्वाऽभक्ष्याच्छादने' इति मयटः उस् । पाण्डुच्छायोपवनवृतयः शुभ्रवर्णोपवनमत्तवारणाः। पाण्डुः शुभ्रवर्णा छाया कान्तिः येषां ते पाण्डुच्छायाः । उपवनानां ग्रामारामाणां वृतयः मत्तवारणानि उपवनवृतयः। पाण्डुच्छायाः शुभ्रवर्णाः उपवनवृतयः मत्तवारणानि येषां ते पाण्डुच्छायोपवनवृतयः । 'प्राकारो वरणः सालः प्राचीनं प्रान्ततो वृतिः ' इत्यमरः । त्वत्सान्निध्यात् भव: त्प्रत्यासत्तेः । तव सान्निध्यं प्रत्यासत्तिः त्वत्सान्निध्यं । तस्माद्धेतुभूतात् । कलुषितपयःपूर्णशालेयवप्राः जम्बालाविलसलिलप्रपूरितशाल्युत्पत्तिक्षेत्राः। कलुषं जम्बालाविलत्वान्मलिनं कृतं कलुषितं । 'मृदो ध्वर्थे णिज्बहुलं ' इति णिच । कलुषयति कलुषं करोति स्म कलुषित । णिजन्तात्क्तः। कलुषितं च तत् पयः पानीयं च कलुषितपयः । तेन पूर्णाः प्रपूरिताः शालेयाः वप्राः क्षेत्राणि यत्र । ' वप्रस्तातेऽस्त्रियां तीरे तु क्षेत्रचयरेणुषु' इति विश्वलोचने । शालेयाः शालीनां क्षेत्राणि । ' श्रीहिशालेर्डस्' इति क्षेत्रार्थे ढञ् । शाल्युत्पत्तिभूमयः इत्यर्थः । 'कलुषोऽनच्छ आविलः' इति, 'क्षेत्रं बेहेयशालेयं बीहिशाल्युद्भवोचितं ' इति चाऽमरः। शाल्युद्भवोचिताः इत्यर्थोऽत्र सङ्ग्राह्यः । रम्यारामाः रमणीयोद्यानभूमयः । रम्याः रमणीयाः आरामाः उद्यानानि यत्र । दशार्णाः दशार्णाभिधानः जनपदः विन्ध्योपान्तात् विन्ध्याख्याचलासन्नप्रदेशात् । विन्ध्यस्योपान्तः आसन्नः प्रदेशः विन्ध्योपान्तः । तस्मात् । अतिदूरे दविष्ठदेशे न गतवतः अप्राप्तस्य । अत्र वर्तमाने क्तवतुः । तव मेघाकारपरिणतस्य भवतः । नयनविषये नेत्रगोचरे । नयनयोर्नत्रयोर्विषयो गोचरः नयनविषयः। तस्मिन् । सद्यः सपदि । सम्पतिष्यन्ति सम्प्राप्स्यन्ति । The Dasharna country, having the fences of its gardens possessing a whitish lustre on account of the flowers of Ketaka plants burst open at the points of the buds, having the fields of rice filled up with water turbid on account of your proximity, laving beautiful gardens, would at onco fall in the rango of your eyesight when you would not have travellod far off from the vicinity of the Vindhyas. तेषामाविष्कृतजललवे त्वय्युपासनवृत्तौ सीमोदेशा नयनसुभगाः सामिसंरूढसस्याः । सञ्जायेरनवपरिकरा मूकपुस्कोकिलाश्च नीडारम्भैर्गृहबलिभुजामाकुलग्रामचैत्याः ॥९०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy