________________
[पार्धाभ्युदये
तस्य । उत्कण्ठया उन्मनायितेन जनिताः विरुतयः केकारावाः उत्कण्ठाविरुतयः । ताभिः मुखरस्य वाचालितस्य । कथञ्चित् कथं कथमपि उत्पतिष्णोः सलीलमुत्पततः। साधूत्पततीत्युत्पतिष्णुः । 'भूभ्राज्यलङ्घनिराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृ. ध्सहचर इष्णुः' इति साध्वर्थे इष्णुः । प्रत्यासन्नत्वदुपगमनस्य समीपभवत्प्राप्तेः । तव उपगमनं त्वदुपगमनं । प्रत्यासन्नं सुतरां समीपं त्वदुपगमनं यस्य सः । तस्य तत्पर्वतस्थितस्य । केकिवृन्दस्य मयूरसङ्घातस्य । आस्वभावे मार्दवाविलान्तः . करणे । आर्द्रः मार्दवाविलः स्वभावः स्वरूपं यस्य सः । तस्मिन् । त्वीय भवति । स्नेहव्यक्ति प्रेमाविर्भाव धनयतः धनीकुर्वतः । धनं करोति घनयति । 'तत्करोति तदाचष्टे' इति णिच् । यद्वा ' मृदो ध्वर्थे णिज्बहुलं' इति णिच् । घनं सान्द्रमित्यर्थः। 'घनं स्यात्कांस्यतालादिवाद्ये मध्यमताण्डवे । घनस्तु मेघे मुस्तायां विस्तारे लोहमुद्गरे । काठिन्ये चाथ कठिने सान्द्रेऽपि च घनस्त्रिषु ' इति विश्वलोचने । प्रत्युद्यातः सतः अपि प्रत्युद्गच्छतः सतः अपि । सभाजनार्थमभिमुखमापतन्तमप्यनादृत्येत्यर्थः। 'ता चाऽनादरे' इत्यनादरे ता । भवान् त्वं आशु झटिति गन्तुं गमनाय व्यवस्येत् निश्चिनुयात् इति कथं केन प्रकारेण कस्माद्वा कारणात् मन्ये जाने ।
How can I think that you, though welcomed, would determine to proceed on immediately conniving at the host of peacocks, noisy on account of the cries given out through eagerness, anyhow flying up well, having your approach well-nigh, intensifying the manifestation. of affection for you who possess a soft heart ?
विन्ध्योपान्तात्तव गतवतो नातिदूरे दशार्णाः
रम्यारामा नयनविषये सम्पतिष्यन्ति सद्यः । त्वत्सानिध्यात् कलुषितपयःपूर्णशालेयवप्राः ।
पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नैः ॥ ८९॥ अन्वय :- सूचिभिन्नैः केतकैः पाण्डुच्छायोपवनवृतयः त्वत्सान्निध्यात् कलुषितपयःपूर्णशालेयवप्राः रम्यारामाः दशार्णाः विन्ध्योपान्तात् अतिदूरे न गतवतः तक नयनविषये सद्यः सम्पतिष्यन्ति ।
विन्ध्येत्यादि । सूचिभिन्नैः अग्रभागे विकसितैः । भिन्नाः विदलिताः विकसिताः सूचयः अग्राणि येषां ते । तैः। 'वाहिताग्न्यादिषु' इति सः । यद्वा सूचिषु मुकुलाग्रेषु मिन्नाः विदलिताः सूचिभिन्नाः । तैः । 'केतकीकुसुमाग्रेषु सूचिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org