SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ [ पार्श्वाभ्युदये भूयश्चेत्यादि । भूयश्व पुनश्च नवजलधराधौतसानुप्रदेशे नव्यजलदप्रक्षालितशिखरभूभागे । नवाः अप्रत्नाः । नवाश्च ते जलधराः मेघाश्च नवजलधराः । तैः आधौताः समन्तात् प्रक्षालिताः सानोः शिखरस्य प्रदेशाः भूभागाः यस्य सः । तस्मिन् । नृत्यत्ककिध्वनिमुखरिते नटन्मयूरके काराववाचालिते । नृत्यन्तः नटन्तश्च ते केकिनः मयूराश्च नृत्यत्केकिनः तेषां ध्वनिभिः केकारावैः मुखरितः वाचालितः । तस्मिन् । मुखरं वाचालं करोति मुखरयति । ' तत्करोति तदाचष्टे ' इति णिच् । मुखरयति स्म मुखरितः । सञ्जातमौखर्यः इत्यर्थः । स्वागतं प्राघूर्णकसभाजनं तन्वति इव विदधति इव । तनोति विदधातीति तन्वन् । तस्मिन् । शिरसा च मूर्ध्ना च पाद्यं पादार्थमुदकं । ' पाद्याध्यै इति निपातः । निर्झराम्भः प्रवाहपानीयं । झरोदकमित्यर्थः । उच्चैः उन्नतं यथा स्यात्तथा । वहति धारयति सति । ककुभसुरभौ अर्जुनकुसुमसुगन्धे । ककुभानां ककुभकुसुमानां सुरभिः सुगन्धः यत्र सः ककुभसुरभिः । ' पुष्पमूले बहुलम्' इति पुष्पत्यस्य ' प्राण्योषधिवृक्षेभ्योऽवयवे च ' इति अवयवार्थे प्रयुक्तस्याऽणः ' भयड्वाऽभक्ष्याच्छादने ' इति तदर्थ एव विहितस्य मयटो वोस् ।' रुद्रद्रुः ककुभोऽर्जुनः ' इत्यमरः । तस्मिन् । पर्वते पर्वते प्रतिपर्वतं । वीप्सायां द्विः । ते भवतः कालक्षेपं कालयापनं अभिशङ्के सन्दिह । सन्देहविषयतां नयामि ॥ , ९८ Moreover, I doubt that you would make delay on every mountain, fragrant on account of the Kakubha flowers, having the regions of its peaks washed off by fresh clouds, resounding with the cries of the dancing peacocks, offering you as if welcome, bearing very high up on its top waters of springs for your feet. निःसङ्गोऽपि व्रजितुमनलं तत्र तत्र क्षितिधे लब्धातिथ्यः प्रिय इव भवानुद्यमानः शिरोभिः । अभ्युद्यातैस्त्वदुपगमनादुन्मनीभूय भूयः शुक्लापाङ्गैः सजलनयनैः स्वागतीकृत्य केकाः ॥ ८७ ॥ अन्वयः भूयः तत्र तत्र क्षितिघ्रे लब्धातिथ्यः खदुपगमनात् उन्मनीभूय केकाः स्वागतीकृत्य अभ्युद्यातैः सजलनयनैः शुक्लापाङ्गैः प्रियः इव शिरोभिः उह्यमानः भवान् निःसङ्गः [ सन्] अपि ब्रजितुं अनलम् । निःसङ्गेऽपीत्यादि । भूयः पुनः तत्र तत्र क्षितिघ्रे सर्वत्र पर्वतेषु । प्रतिपर्वतमित्यर्थः । क्षितिं भुवं धरतीति क्षितिभ्रः पर्वतः । तस्मिन् । लब्धातिथ्यः - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy