SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः] ९७ अन्वयः--- सखे । ध्यानहेतोः यत् इदं गम्भीरत्वं अधुना लक्ष्यते तत् मदीयैः सङ्क्षोभाणां विरचनशतैः अपि अधृष्यं दृष्ट्वा मत्प्रियार्थ घनतया अतिधैर्यात् द्रुतं अपि यियासोः तव मान्यं एव अहं उत्पश्यामि । गम्भीरत्व मित्यादि । सखे हे मित्र ध्यानहेतोः ध्यानस्य निर्विकल्पसमाधेः हेतोः । ध्यानसिद्ध्यर्थमित्यर्थः । यत् इदं गम्भीरत्वं प्रशान्तमनस्कत्वं । नानाविधोपसर्गरुपद्रुतेऽपि मया भवति भवतो यदिदमक्षुब्धस्वान्तत्वं अधुना इदानीतने काले लक्ष्यते अवलोक्यते तत् गम्भीरत्वं मदीयैः मामकीनैः । मम अयमिति छः । सङ्क्षोभाणां सञ्चालनोपायानां विरचनशतैः अपि प्रयोजनशतैः अपि । विरचनानां विधानानां प्रयोजनानां शतानि । तैः अवृष्यं अधर्षणीयं । अनभिभवनीयमित्यर्थः । दृष्टा विलोक्य मत्प्रियार्थ मदीयायाः प्रेयस्याः कृते घनतया धृतमेघाकृतित्वेन अतिधैर्यात् आश्रितविपुलसाहसत्वात् द्रुतं अपि शीघ्रमीप यियासोः यातुमिच्छोः। यातुमिच्छति यियासति । ' तुमीच्छायां धोर्वोम्' इतीच्छायां कृतस्य तुम उप संश्च । सन्नन्ताच्चास्मात् 'सन्भिक्षाशस्विन्दिच्छादः' इत्युः । तस्य । तव भवतः मान्द्यं मन्दत्वं । जडत्वमित्यर्थः । एव । अवधारणाथायमेवकारः । एतेन मान्द्यादन्यस्य भावस्य परिहारो भवति । अहं कमठचरः शम्बरासुरः उत्पश्यामि तयामि । मन्ये इत्यर्थः ॥ Having seen this balance of your mind effected for your meditation, which is being noticed at present, to be quite impenetrable by hundreds of strategemes devised by me to effect its disturbance, I look up to it as merely the dulness of you who, under the disguise of a cloud, are desirous of going speedily with a very great courage for the sake of my beloved. भूयश्चाहं नवजलधराधौतसानुप्रदेशे नृत्यत्केकिध्वनिमुखरित स्वागतं तन्वतीव । पाद्यं चोच्चर्वहति शिरसा निर्झराम्भोऽभिशङ्के कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते ॥ ८६ ॥ अन्वयः-- भूयः च नवजलधराधौतसानुप्रदेशे नृत्यत्केकिध्वनिमुखरिते स्वागतं तन्वीत इव, शिरसा च पाद्यं निझराम्भः उच्चैः वहति, ककुभसुरभौ पर्वते पर्वते ते कालक्षेपं अभिशङ्क। पार्श्वभ्युदये...७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001704
Book TitleParshvabhyuday
Original Sutra AuthorJinsenacharya
AuthorM G Kothari
PublisherGulabchand Hirachand Doshi
Publication Year
Total Pages844
LanguageSanskrit, English
ClassificationBook_Devnagari, Literature, & Mythology
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy